________________
श्रीभगलघुवृत्ती
५ शतके ४ उद्देशः
MAImusanIATranatillumiamsramin mun
खजीवप्रदेशेषु सम्बद्धानि असंबद्धानि वा ?, यदि सम्बद्धानि तदा कथं भिन्नरजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या, तथापि तत्कल्पने जीवानामपि जालग्रथिकाकल्पत्वं स्यात् , तत्सम्बद्धत्वात् , तथा च सर्वजीवानां सर्वायुस्संवेदनेन सर्वभवानुभवनप्रसङ्गः, अथ जीवानामसम्बद्धान्यायूंषि तदा तद्बशाद्देवादिजन्म इति न स्याद् , असम्बद्धत्वादेवेति, यच्चोक्तं-एको जीव एकेन समयेन द्वे आयुषी वेदयति, तदपि मिथ्या, आयुर्द्वयसंवेदने युगपद्भवद्वयप्रसङ्गादिति, 'एगमेगस्स'त्ति एकैकस्य | जीवस्य, नतु बहूनां, बहुप्वाजातिसहस्रेषु क्रमवृत्तिअतीतकालिकेषु तत्कालापेक्षया सत्सु बहून्यायुःसहस्राणि अतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धं इत्येवं सर्वाणि मिथःप्रतिबद्धानि स्युः, न पुनरेकभव एव बहूनि, 'इहभवियाउ'त्ति वर्तमानभवायुः 'परभवियाउ'त्ति परभवप्रायोग्यं यद्वर्त्तमानभवनिबद्धं, तच्च परभवे गतो यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं वत्ति 'कहिं कडेत्ति व भवे बद्धं ?, 'समाइण्णे ति, समाचरितं, तद्धेतुसमाचरणात् 'जे जंभविए जोणिं उववजित्तए'त्ति यो यस्यां योनावुत्पत्तुं योग्य इति, दुविहति सम्मूर्छिमगर्भव्युत्क्रान्तिकभेदान द्विधा, चउविहति चतुर्विधं भवनपत्यादिभेदादिति ।। पञ्चमशते तृतीय उद्देशकः ॥
'आउडिजमाणाईति (सू०१८४) 'जुड बन्धने' इति धातोः आजोड्यमानेभ्यः-सम्बध्यमानेभ्यो मुखहस्तदण्डादिना सह शङ्ख| पटहझल्लादिवायेभ्यः, आकुट्यमानेभ्यो वा एभ्य एव, ये जाताः शब्दास्ते आजोड्यमाना आकुट्यमाना एव वा उच्यन्ते, अतस्तानाजोड्यमानानाकुट्यमानान् वा शब्दान् शृणोति, इह प्राकृतत्वाच्छब्दस्य नपुंसकता, अथवा 'आउडि जमाणाईति आकुट्यमानानि मिथोऽभिहन्यमानानि शब्दानि-शब्दद्रव्याणि, 'संखियत्ति शङ्खिका-इस्वशङ्खः 'खर हे त्ति काहला 'पोया महती काहला
a
Mir