________________
श्रीभग
५ शतके ३ उद्देशः
लघुवृत्ती
| सीई च सहस्सा सयं च इगुयालं किंचिविसेसूर्ण परिक्खेवणं पण्णत्ते,' इत्यादि, एतस्यां 'ता कम्हाणं भंते ! लवणसमुद्दे जबुद्दीवं २ | नो उब्बीलेई' इत्यादिप्रश्ने 'गोयमा! जंबुद्दीवे २ भरहेरवएसु वासेसु अरहंता चक्कवी'त्यादि, उत्तरग्रन्थस्यान्ते 'लोगडिई' | इत्यादि, द्रष्टव्यमिति ।। पञ्चमे शते द्वितीय उद्देशकः ।।
तृतीयोद्देशकादिसूत्रमिदमाह-'जालगंठिय'त्ति (सू. १८२) जालं-मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिकाजालिका, किंखरूपा सेत्याह-'आणुपुब्विगढिय'त्ति आनुपूर्व्या-परिपाट्या, आधुचितग्रन्थीनामादौ विधानाद् अन्तोचितानां चक्रमेण अन्त एव करणात आणंतरगढि'त्ति प्रथमग्रन्थीनामनन्तरव्यवस्थापितग्रन्थिभिस्सह ग्रथिताः,एवं परम्परैः-व्यवहितैस्सह ग्रथिताः, अन्नमन्न'त्ति अन्योऽन्यं-मिथः एकेन ग्रन्थिना सहान्यो ग्रन्थिः अन्येन च सहान्य इत्यन्योऽन्यग्रथिताः, अन्नमन्नगुरुय'त्ति अन्योऽन्येन ग्रथनात् गुरुकता-विस्तीर्णता तया, 'अन्नमनभारिय'त्ति अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्योऽन्यभारिकं तद्भावस्तत्ता तया, 'अन्नमन्नगुरुयसंभारिय'त्ति अन्योऽन्येन गुरुकं यत् संभारिकं च तत्तथा तद्भावस्तत्ता तया, 'अन्नमनघड'त्ति अन्योऽन्यं घटा-समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता तया 'चिट्ठइ'त्ति आस्ते, अयं | दृष्टान्तः, अथ दार्शन्तिक उच्यते-"एवामेव'त्ति अनेनैव न्यायेन 'बहसु आजाइसहस्सेसुत्ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमेण प्रवृत्तेषु बहून्यायुष्कसहस्राणि, तत्स्वामिजीवानां आजातीनां च बहुसहस्रसङ्ख्यत्वात् , आनुपूर्वीग्रथितानीति पूर्ववद् व्याख्येयं, अर्थतेषामायुषां को वेदनविधिरित्याह-'एगेऽवि येत्यादि, एकोऽपि जीव एकेन समयेनेत्यादि प्रथमशतवत् , अत्रोत्तरं-'जे ते' इत्यादि, मिथ्यात्वं चैषामेवं-यानि हि बहूनि आयूंषि बहूनां जालग्रन्थिकावत्तिष्ठन्ति तानि य(त)था
॥७
॥