SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीभग ५ शतके लघुवृत्तौ १ उद्देशः पुरस्कृतः-पुरोवती, भविष्यनित्यर्थः, समयः प्रतीतः, ततः पदत्रयस्य कर्मधारयः तत्र, अगंतरपच्छाकडे समयंसित्ति पूर्वा- | परविदेहवर्षाप्रथमसमयापेक्षया योऽनन्तरः पश्चात्कृतः-अतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयः स्यात् , 'एवं जहा समएण'ति इत्यादि, आवलिकाभिलापश्चैवम्-'जया णं भंते ! जंबुद्दीवे २ दाहिणद्धे वासाणं पढमा आवलिया पडिवजइ जया णं उत्तरद्धेऽवि, जया णं उत्तरद्धे वासाणं पढ० तया णं जंबु० मंदरपब्वयस्स पुरच्छिमपञ्चच्छिमे णं अणंतरपुरक्खडसमयंसि वासाणं | पढमावलिया पडिवजइ ? हंता! गोयमे त्यादि, एवमानप्राणादिषु पदेष्वपि, आवलिकाद्यर्थः पुनरेवं-आवलिका-असङ्ख्यातसमयात्मिका आनप्राणः-उच्छासनिःश्वासकालः स्तोकः-सप्तप्राणप्रमाणो लवस्तु-सप्तस्तोकरूपः, मुहूर्तः पुनः लवसप्तसप्ततिमितः ऋतुस्तु मासद्वयमानः 'हेमंताणं ति शीतकालस्य 'गिम्हाणं'ति उष्णकालस्य, 'पढमे अयणे'त्ति दक्षिणायनं, श्रावणादित्वात् संवत्सरस्य, षण्मासीं यावद्दक्षिणायनमिति, एवमुत्तरायणमपि, 'जुएणवित्ति युगं--पञ्चसंवत्सरमानं 'पुग्वेण वत्ति पूर्वांगं ८४ | वर्षलक्षाणां, 'पुव्वेण वत्ति पूर्व पूर्वाङ्गमेव ८४ वर्षलक्षगुणितं, एवमग्रेऽपि ८४ वर्षलक्षगुणितमुत्तरोत्तरं स्थानं स्यात् , चतुर्णवत्य|धिकं चाङ्कशतमन्तिमे स्थाने स्यादिति, 'पढमा ओसपिणि'त्ति अवसर्पयति भावानित्यवंशीला अवसर्पिणी तस्याः प्रथमो विभागः प्रथमा अवसर्पिणि 'उस्सप्पिणिति उत्सर्पयति भावानित्यवंशीला उत्सर्पिणी ।। पश्चमशते प्रथम उद्देशकः ॥ | प्रथमोद्देशके दिक्षु दिवसादिभाग उक्तः, द्वितीये तु तास्वेव वातं प्रतिपिपादयिषुर्वातभेदास्तावदभिधातुमाह-'अस्थि'त्ति (सू./ १७९) अस्त्ययमों यदुत वाता वान्ति, कीदृशा इत्याह-'ईसिं पुरेवाय'त्ति मनाक् सत्रेहवाताः, पच्छावाय'त्ति पथ्या-वनस्पत्यादिहिता वायवः, 'मंदा वाय'त्ति मन्दाः-शनैः सञ्चारिणोऽमहावाताः 'महावाय'त्ति उद्दण्डवाता अनल्पाः,'पुरथिमे
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy