SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ शतके १ उद्देश: तममण्डले षट् मुहूर्त्ता वर्द्धन्त इत्येवमष्टादशमुहूतौ दिवसः स्यात् , अत एव द्वादशमुहूर्ता रात्रिः स्यात् , त्रिंशतमुहूर्त्तत्वादहोरात्रस्य, 'अट्ठारसमुहुत्ताणंतरे'त्ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले वर्तते सूर्यस्तदा मुहू कषष्टिभागद्वयहीनोऽष्टादशमुहूर्तो दिवसः | स्यात् , स चाष्टादशमुहू दिवसादनन्तरोऽष्टादशमुहूर्त्तानन्तर इति व्यपदिश्यते, 'साइरेगा दुवालसमुहुत्ता राईत्ति द्वाभ्यां | मुहूत्र्तकपष्टिभागाभ्यामधिका द्वादशमुहूर्त्तप्रमाणा रात्रिः स्यात् , यावता भागेन दिनं हीयते तावता रात्रिर्वद्धुते, त्रिंशन्मुहूर्त्तत्वाद| होरात्रस्येति, 'एवं एएणं कमेणं'ति एतेनानन्तरोक्तेन 'जया णं भंते !जंबुद्दीवे२ दाहिणद्धे' इत्यनेन 'ओसारेयव्वं'ति | दिनमानंहस्वीकार्य,तदेव दर्शयति-'सत्तरसे'त्यादि,तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यकत्रिंशत्तममण्डलार्द्ध यदासूर्यस्तदा | सप्तदशमुहूर्तो दिवसः स्यात् , पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्त्ता च रात्रिरिति, 'सत्तरसमुहुत्ताणंतर'त्ति मुहूर्त्तकषष्टिभागद्व| यहीनसप्तदशमुहूर्त्तप्रमाणो दिवसो यत् द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्ध स्यात् , एवमनन्तरत्वमन्यत्राप्यूह्यम् , 'साइरेगतेरसमुहुत्ता राईत्ति मुहूत् कषष्टिभागद्वयेन सातिरेकत्वं, एवं सर्वत्र,'सोलसमुहुत्ते दिवसे'त्ति द्वितीयादारभ्यैकषष्टितममण्डले १६ मुहूर्तो दिवसः स्यात् , 'पन्नरसमुहुत्ते दिवसे'ति द्विनवतितममण्डलार्द्ध वर्तमाने स्वौ, 'चउद्दसमुहुत्ते दिवसे'त्ति | द्वाविंशत्युत्तरशततमे मण्डले, 'तेरसमुहुत्तेत्ति सार्द्धद्विपञ्चाशदुत्तरशततमे मण्डले, 'बारसमुहुत्ते'त्ति व्यशीत्यधिकशततमे | मण्डले,सर्वबाह्य इत्यर्थः।। कालाधिकारादिदमाह-'जयाणं भंते! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमे समए पडिवजई' इत्यादि, (सू. १७७) 'वासाणं'ति चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी प्रथमः-आद्यः समय:-क्षणः प्रतिपद्यते-संपद्यते, भवति | इत्यर्थः, 'अणंतरपुरेक्खडे समयंसित्ति अनन्तरो निर्व्यवधानो दक्षिणार्धवर्षाप्रथमतापेक्षया, स चातीतोऽपि स्यादत आह
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy