________________
श्रीभगलघुवृत्तौ
भागा नव च दशभागयोजनस्येत्येतत् सर्वोत्कृष्ट दिवसे दशभागत्रयरूपं तापक्षेत्रप्रमाणं स्यात् कथं ?, मन्दरपरिक्षेपस्य किञ्चिन्न्यूनत्रयोविंशत्युत्तरपद् ३१६२३ शताधिकैकत्रिंशद्योजनसहस्रमानस्य दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति । तथा लवणसमुद्रं प्रति चतुर्नवतियोजनानां सहस्रं ९४८६८ अष्टौ शतानि अष्टषष्ट्यधिकानि चत्वारश्च दशभागयोजनस्येत्येतदुत्कृष्टदिने तापक्षेत्रप्रमाणं स्यात् कथं ?, जम्बूद्वीपपरिधेः किञ्चिन्न्यूनाष्टाविंशत्युत्तरशतद्वयाधिकषोडशसहस्रो पेतयोजनलक्षत्रय| मानस्य ३१६२२८ दशभिर्भागे यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति, जघन्यरात्रिक्षेत्रपरीमाणं चाप्येवमेव, नवरं परिधे - देशभागो द्विगुणः कार्यः, तत्राद्यः षड् योजनानां ६३२४ सहस्राणि त्रीणि शतानि चतुर्विंशत्यधिकानि षट् च भागां दशभागयोजनस्य, द्वितीयं तु त्रिषष्टिः सहस्राणि द्वे पञ्चचत्वारिंशदधिके योजनानां शते षड् भागा दशभागयोजनस्य ६३२४५ सर्वलघौ च दिने तापक्षेत्र मनन्तरोक्तरात्रिक्षेत्रतुल्यं, रात्रिक्षेत्रं त्वनन्तरोक्ततापक्षेत्रतुल्यंमिति, आयामतस्तु तापक्षेत्रं जम्बूद्वीपमध्ये पञ्चचत्वारिंशद्योजन सहस्राणि, लवणे च त्रय ३३३३३ . स्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि एकभागच त्रिभागयोजनस्य, उभयमीलने तु अष्टसप्ततिः सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि योजनत्रिभागश्चेति ७८३३३ । 'उक्कोसए अट्ठारसमुहुत्ते दिवसे हवइत्ति इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं स्यात्, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिर्मण्डलानि स्युः, एकोनविंशत्यधिकं च शतं मण्डलानां लवणसमुद्रमध्ये भवति, तत्र सर्वाभ्यन्तरे मण्डले यदा वर्त्तते सूर्यस्तदा अष्टादशमुहूर्त्ती दिवसो भवति, यदा सर्वबा मण्डले वर्त्तते रविस्तदा सर्वजघन्यो द्वादशमुहूर्तो दिवसो भवति, अष्टादश मुहूर्त्ताः कथं स्युः १, उच्यते, द्वितीय मण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां एकषष्टिभागरूपमुहूर्त्तसम्बन्धिभागाभ्यां दिनस्य वृद्धौ व्यशीत्यधिकशत
५ शतके १ उद्देशः