________________
श्रीभगलघुवृत्तौ
कण्हलेसाठाणाणं जाव सुक्कलेसाठाणाण य जहन्नगाणं दव्बट्टयाए ३ कयरे २ हिंतो अप्पा वा ४१, गोयमा ! सव्वत्थोवा जहण्णगा काउलेसाठाणा दव्वट्टयाए जहण्णगा नीललेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहण्णगा कण्हलेसा० द०च० असं ० जह० पम्हलेसाठाणा दव्व० असंखेजहण्णगा तेउलेसाठाणा दव्व० असं० जह०पम्हलेसाठाणा दव्त्र असं० जह० सुक्कलेसाठाणा दव्ब० असं०' इत्यादीति ॥ चतुर्थशते दशमः ॥ सम्पूर्ण चतुर्थं शतम् ॥
भगवत्यां चतुर्थशतान्ते लेश्या उक्ताः पश्चमशते तु प्रायो लेश्यावन्तो निरूप्यन्ते, एवंसम्बन्धस्यास्योदेशकस्य सङ्ग्रहगाथेयम् - "चंप रवि १ अणिल २ गंठिय ३ सदे ४ छउमा ५ऽऽउ ६ एअण ७ नियंठे ८ । रायगिहं ९ चंपा चंदिमा य १० दस पंचमंमि सए ॥ | १ ||" 'चंपे 'ति तत्र चम्पायां रविविषयप्रश्ननिर्णयार्थः प्रथमः, 'अणिल' त्ति वायुविषयो द्वितीयः, 'गंठिय'त्ति जालग्रथिकाज्ञातज्ञापनीयार्थनिर्णयपरस्तृतीयः, 'सदे'त्ति शब्दविषयप्रश्न निर्णयार्थश्चतुर्थः, 'छउम'त्ति छद्मस्थवक्तव्यतार्थः पञ्चमः, 'आउ'त्ति आयुषोऽल्पत्वादिवाच्यार्थः षष्ठः, 'एयण' त्ति पुद्गलानामेजनाद्यर्थवाच्यः सप्तमः, 'णियंटे' त्ति निर्ग्रन्थीपुत्राभिधानानगार विहितसुविचारसारोऽष्टमः, 'रायगिहं' ति राजगृहनगर विचारसरो नवमः, 'चंपा चंदिमा य'त्ति चम्पायां चन्द्रवक्तव्यतार्थो दशमः, तत्र प्रथमोद्देशके किञ्चिल्लिख्यते- 'सूरिय'त्ति द्वौ रवी, जम्बूद्वीपे द्वयोरेव भावात्, 'उदीणपाईणं' ति उदगेव उदीचीनं प्रागेव प्राचीनं, उदीचीनं तदुदीच्यासन्नत्वात् प्राचीनं तत्प्रत्यासन्नत्वात् उदीचीनप्राचीनं दिगन्तरं, क्षेत्रदिग पेक्षया पूर्वोत्तर दिगित्यर्थः, 'उज्गच्छत्ति उद्गत्य क्रमेण तत्रोद्गमनं कृत्वा 'पाईणदाहिणं' ति प्राचीन दक्षिणं दिगन्तरं, पूर्व
५ शतके १ उद्देशः