SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्तौ वा वत्थे रागं पप्प तारूवत्ताए भुजो २ परिणमइ, एएणद्वेणं गोयमा ! एवं बुच्चइ - कण्हलेसा' इत्यादि, एतेनैवाभिलापेन नीला कापोतीं कापोती तैजसीं तैजसी पद्मां पद्मा शुक्लां प्राप्य तद्रूपत्वादिना परिणमतीति वाच्यम्, अथ कियद्दूरमुदेशकोऽयं वाच्य इत्याह- ' जावे' त्यादि, परिणामेत्यादिगाथोक्तद्वारपरिसमाप्तिं यावदिति, तत्र परिणामो दर्शित एव, तथा 'वण्ण' त्ति कृष्णादिलेश्यानां वर्णो वाच्यः, स चैवं- 'कण्हलेस्सा णं भंते ! केरिसगा वण्णेणं पन्नत्तेति, उत्तरं तु कृष्णा जीमूतादिवत्, नीला भृङ्गादिवत्, कापोती कापोतवर्णा खदिरसारादिवत्, तैजसी लोहिता शशकरक्तादिवत्, पद्मा पीता चम्पकादिवत् शुक्ला (श्वेता शङ्खादिवत्, 'रस'त्ति कृष्णा तिक्तरसा लिम्बवत्, नीला कटुकरसा नागरवत्, कापोती कषायरसा अपक्ववदवत्, तेजोलेश्या अम्लमधुरा अपक्वाम्रफलवत्, पद्मा कटुकषायमधुररसा चन्द्रप्रभासुरावत् शुक्ला मधुररसा गुडादिवत्, 'गंध' त्ति लेश्यागन्धो वाच्यः, आद्यास्तिस्रो दुरभिगन्धाः, अन्त्याश्च तदितराः, 'सुद्ध' त्ति अन्त्याः शुद्धाः, आद्यास्त्वितराः, 'अपसत्य'त्ति आद्या अप्रशस्ता अन्त्याः प्रशस्ताः 'संकि लिङ'त्ति आद्याः संक्लिष्टाः, अन्त्या अन्याः, 'उन्ह'त्ति अन्त्या उष्णाः स्निग्धाच, आद्याः शीता रूक्षाच, 'गइ 'त्ति आद्या दुर्गतिहेतवः अन्त्याः सुगतिहेतवः, 'परिणाम'त्ति लेश्यानां कतिविधः परिणाम इति वाच्यं, तत्रासौ जघन्यमध्यमोत्कृष्टभेदात् त्रिधा उत्पादादिभेदाद्वा त्रिधा, 'एएसि 'न्ति आसां प्रदेशा वाच्याः, तत्रानंतप्रदेशकाः प्रत्येकं वाच्या एताः, 'ओगाह' त्ति अवगाहना आसां वाच्या, तत्रैता असङ्ख्यातक्षेत्र प्रदेशावगाढाः, 'वग्गण'ति वर्गणा आसां वाच्याः, तत्र वर्गणा कृष्णलेश्यादियोग्यद्रव्यवर्गणाः, ताश्चानन्ता औदारिकादिवर्गणावत्, 'ठाण'त्ति तारतम्येन विचित्राध्यवसायनिबन्धनानि कृष्णादिद्रव्यवृन्दानि तानि चासङ्ख्येयानि, अध्यवसायस्थानानामसङ्ख्यातत्वात्, 'अप्पबहु' त्ति लेश्या स्थानानामल्पबहुत्वं वाच्यं तच्चैवम्- 'एएसि णं भंते ! ४ शतके १० उद्दे० ॥६७॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy