________________
३ शतके
श्रीभगलघुवृत्ती
७ उद्देशः
| पत्रकुम्भौ पूर्ववत् , 'धणु'त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिवाणैः कर्णादिच्छेदनभेदनादि कुर्यात् स धनुः १२ कदम्बपुष्पाद्याकारवालुकासु यः पचति सः वालुकः १३ 'वेयरणी यत्ति तत्र पूयरुधिरादिभृतवैतरण्याख्यनदीविकुर्वणात् वैतरणीदेव इति, यो वज्रकण्टकाकुलं शाल्मलीतरुमारोप्य नारकं खरस्वरं कुर्वन्तं कर्षत्यसौ खरस्वरः १४, यो भीतान् पलायमानान् नारकान् पशूनिव वाटके महाघोषं कुर्वन् रुणद्धि स महाघोषः १५ एवमेते यथापत्यदेवा उक्ताः, 'अइवास'त्ति अतिशयवर्षाः-वेगवद्वर्षणानि 'मंद'त्ति शनैर्वर्षणानि, सुवृष्टि, दुर्वृष्टिः, 'उदउन्भेय'त्ति उदकोद्भेदाः, गिरितटादिभ्यो जलोद्भवाः, 'उदउप्पीलिय'त्ति उदकोत्पीलाः-तडागादिजलसमूहाः 'पवाह'त्ति अपकृष्टानि अल्पान्युदकवहनानि, तान्येव प्रकर्षवन्ति प्रवाहाः, इह प्राणक्षयादयो जलकृता द्रष्टव्याः 'ककोडए'त्ति कर्कोटकाभिधानोऽनुवेलन्धरनागराजावासभूतो गिरिलवणाब्धौ ऐशान्यां दिश्यस्ति, ततस्तन्निवासी नागराजः कर्कोटकः, 'कद्दमए'त्ति आग्नेय्यां तथैव विद्युत्प्रभगिरिः तत्र कर्दमको नाम नागराजः 'अंजणो'त्ति वेलम्बाभिधानवायुकुमारराजस्य लोकपालोऽञ्जनाभिधानः, 'संखवालए'त्ति धरणाभिधाननागराजस्य लोकपालः शङ्खपालः, शेषास्तु पुण्ड्रादयोऽप्रतीताः, 'वसुहार'त्ति (सू. १६७) तीर्थकरजन्मादिषु नभसो द्रव्यवृष्टिः वसुधारा, हिरण्यं-रुप्यं, घटितं सुवर्णमित्यन्ये, वर्षोऽल्पतरः दृष्टिस्तु महतीति वर्षवृष्टयोर्भेदः, माल्यं-ग्रथितपुष्पाणि, वर्णाश्चन्दनं, चूर्णा- गन्धद्रव्यसम्बन्धी, गन्धाःकोष्टपुटपाकादयः 'सपिणहित्ति घृतगुडादिस्थापनानि, 'सन्निचय'त्ति धान्यसञ्चयाः, निधिलक्षादिप्रमाणद्रव्यस्थापनानि, निधाना भूमिगतसहस्रादिद्रव्यसङ्ख्यसञ्चयाः, 'पहीणसेइयाइ'न्ति प्रहीणा-अल्पीभृताः सेक्तार:-सेचका नबद्रव्यप्रक्षेप्तारो येषां तानि नहीणं-विरलीभूतमानुषं गोत्रागार-तत्स्वामिगोत्रगृहं येषां तानि, 'निद्धमणेसु नगरोदकनिर्गमनेषु 'सुसाण'त्ति
॥६.