SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीभग० लघुवृत्ती ३ शतके ७ उद्देशः अभवत् , उपलक्षणत्वाच्च भवन्ति भविष्यतीति द्रष्टव्यम् , ते चाङ्गारादयः पूर्वोक्ताः, एतेषु यद्यपि चन्द्रसूर्ययोर्वर्षलवाद्यधिक पल्योपमं तथाप्याधिक्यस्याविवक्षितत्वात् पल्योपममेवोक्तं, 'पेयकाइया' प्रेतकायिका व्यन्तरविशेषाः 'पेयदेवणय'त्ति प्रेतसत्कदेवतासम्बन्धिनः, 'आहिओग'त्ति अभियोगश्च-आदेशस्तद्भावनावशेन आभियोगिकदेवेषूत्पन्नाः अभियोगवर्त्तिनश्च, | 'डिम्बाईन्ति डिम्बा-विघ्नाः, डमरा-एकराज्य एव राजकुमारादिकृतोपद्रवाः कलहा-वचनराटयः अव्यक्ताक्षरध्वनिसमूहः | खाराः-परस्परमत्सराः महायुद्धानि-व्यवस्थाविहीनानि महासङ्ग्रामाः-चक्रादिव्यूहरचनोपेताः सव्यवस्थाः महाशस्त्रनिपातनादयश्च महायुद्धादिकार्यभृताः, 'दुन्भूय'त्ति दुष्टा जनधान्यादीनामुपंद्रवहेतुत्वात् भूताः-सत्वा यूकामत्कुणोंदुरतिड्डप्रभृतयो दुर्भूताः, ईतय इत्यर्थः, इन्द्रग्रहा-उन्मत्तताहेतवः, एकाहिकादयो ज्वरविशेषाः, 'उव्वेयग'त्ति उद्वेगकाः, इष्टवियोगादिजन्या उद्वेगाः, | उद्वेजका वा लोकोद्वेगकारिणश्चौरादयः, 'कच्छकोह'त्ति कक्षाणां-वपुरवयवरूपाणां वनगहनानां वा कोथाः-कुथितत्वानि शट| नानि वा कक्षाकोथाः कक्षकोथा वा, अम्ब (सू० २७) इत्यादयः, पञ्चदशासुरनिकायान्तर्वर्तिनः परमाधार्मिकनिकायाः, तत्र यो देवो | नारकानम्बरतले नीत्वा विमुञ्चत्यसावम्बः१ यो नारकान् खण्डशः कृत्वा भ्रष्टपाकयोग्यान् कुर्यादसावम्बरीषस्य आसम्बन्धात् अम्ब रीपः २ तेषां यः शातनादिकारको वर्णतश्च श्यामः स श्यामः ३ 'सबल'त्ति तेषामन्त्रहृदयादीन्युत्पाटयति यो वर्णतश्च शबल:कधुरः स शबलः ४, यः कुन्तादीषु नारकान् प्रोतयति स रौद्रः, ५ यस्तेषामङ्गोपाङ्गानि भनक्ति स उपरौद्रः ६ यः कंड्वादिषु पचति || | वर्णतश्च कालः स कालः ७ यः श्लक्ष्णमांसखण्डानि कृत्वा खादयति स वर्णतश्च महाकालः ८ योऽसिना छिनत्ति स असिरेव ९ | खड्गाकारपत्रबद्वनविकुर्वणादसिपत्रः-१० कुम्भ्यादिषु तेषां पचनात् कुम्भः ११ पाठान्तरे तु 'असिपत्ते धणूकुंभेत्ति असि म्वर
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy