SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीभग शतके लघुवृत्ती ५ उद्देशः वमनं करोति, 'बहुली'त्ति घनीस्यात् , प्रणीतसामर्थ्यात् , 'पयणुए'त्ति अपनीयात् 'अहाबायर'त्ति यथाबादरा आहार| पुद्गलाः 'लूह'ति रूक्षं अप्रणीतं,'णो वामेइ' अकपायितया वैक्रियायामनर्थित्वात् रूक्षभोजिन आहारादिपुद्गला उच्चारादितयैव परिणमन्ति, अन्यथा शरीरासारतानापत्तेरिति, 'तस्स ठाणस्स'त्ति तस्मात् स्थानात् विकुर्वणलक्षणात् प्रणीतभोजनलक्षणाद्वा ॥ तृतीयशते चतुर्थोद्देशकविवरणम् ॥ .. 'असिचम्मपाय'ति (मू० १६०) असिः-खड्गः, चर्मपात्रं-प्रत्याकारः, असिचर्मपात्रं हस्ते यस्य स तथा, कृत्यं सङ्घादि, तत्र | कार्य गतः-प्राप्तः, सूत्रे विशेषणकर्मधारयसमासः, 'उद्धं वेहासंति ऊवं विहायसं-आकाशं, 'वगति वृकः 'दीविय'त्ति चतुप्पदविशेषः, 'अच्छ'त्ति ऋक्षः 'तरच्छत्ति व्याघ्रविशेषः 'परासर'त्ति शरभः 'अहिजंजित्तए' अभियोक्तुं-विद्यासामर्थ्यत| स्तदनुप्रवेशेन व्यापारयितुं,यच्च स्वस्थानुप्रवेशनेनाभियोजनं तद्विद्यादिसामोपात्तबाह्यपुद्गलान् विना न स्यादित्युच्यते-'नो बाहि| रए पोग्गले अपरियाइत्त'त्ति, 'अणगारे 'ति अनगार एवासौ, तत्त्वतोऽनगारस्यैवाश्वाद्यनुप्रवेशेन व्याप्रियमाणत्वात् , 'माई अभिमुंजइ'त्ति कषायवानभियुङ्क्ते,अधिकृतवाचनायां 'माई विउव्वईत्ति दृश्यते, तत्र अभियोगोऽपि विकुर्वणा मन्तव्या, विक्रियारूपत्वात् तस्येति, 'अण्णयरेसुत्ति आभियोगिकदेवा अच्युतान्ताः स्युरिति अन्यतरेषु के पुचित् उत्पद्यन्ते अभियोगमावनायुक्तः साधुराभियोगिकदेवेषु, कश्चित्करोति विद्यालब्ध्युपजीवकोऽभियोगभावनां, यदाह-मंता जोगं काउं भूईकम्मं च जे पउं. जंति । सायरसइड्डिहेडं अभिओगं भावणं कुणइ ॥१॥" 'इत्थी(*२६)त्यादि सङ्ग्रहगाथा गतार्था ॥ तृतीयशते पश्चम उद्देशकः॥ विकुर्वणाधिकारसम्बद्ध एव षष्ठ उद्देशकः, तस्येदमादिसूत्रम्-'अणगारे गं'ति (सू०१६१) अनगार एव गृहवासत्यागात् ॥३॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy