SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीभग० ३ शतके लघुवृत्ती उद्देशः | बलाहकस्याजीवत्वेन विकुर्वणाया असम्भवात परिणामयितुमुक्तम् , परिणामश्चास्य विश्रसारूपः,'नो आयडिए'त्ति अचेतनत्वान्मेघस्य विवक्षितशक्तेरभावानात्मा गमनमस्ति वायुना देवेन वा प्रेरितस्य तु स्याद् गमनमतोऽभिधीयते-'परिडीए'त्ति एवं 'पुरि| से आसे'त्ति स्त्रीरूपसूत्रमिव पुरुषाश्वहस्तिरूपसूत्राण्यध्येतव्यानि, 'एगओचकवालंपि' नवरमिह यानं-शकटं चक्रवालं-चक्र, शकट एव चक्रवालभावात् , ततश्च युग्यगिल्लिथिल्लिशिविकास्यन्दमानिकारूपसूत्राणि स्त्रीरूपसूत्रबदध्येयानि, 'जे भविए'त्ति यो योग्यः 'किंलेसेसु'त्ति (सू० १५८) का कृष्णादीनामन्यतमा लेश्या येषां तेषु किलेश्येषु मध्ये 'जल्लेसाईति या लेश्या येषां । द्रव्याणां तानि यल्लेश्यानि, यस्या लेश्यायाः सम्बन्धीनीति भावः, 'परियाइत्ता' पर्यादाय कालं करोति-म्रियते, तल्लेश्येषु नारकेपृत्पद्यते, अत्र गाथाः-"सव्वाहि लेसाहि, पढमे समयंमि संपरिणयाहि । नो कस्सवि उबवाओ परे भवे अस्थि जीवस्स ॥१॥" | सव्वाहिं लेसाहिं चरमे समयंमि संपरिणयाहिं । नवि कस्सवि उववाओ परे भवे अस्थि जीवाणं ॥२॥ अंतमुहुत्तंमि गए अंतमुहुर्तमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोयं ॥३॥" 'जाव'त्ति ननु एतावतैव विवक्षितार्थसिद्धेः किमर्थ भेदेन ज्योतिष्कालापकः पृथगुक्तः ?, उच्यते, २४ दण्डकान्त्यसूत्रदर्शनार्थ, ननु तर्हि यावत्करणात् वैमानिकसूत्रं वाच्यं स्यात् , न तु ज्योतिष्कसूत्रं, सत्यं, किन्तु ज्योतिष्कवैमानिकाः प्रशस्तलेश्याः स्युरित्यस्यार्थस्य दर्शनार्थ तेषां भेदेनाभिधानं,विचित्रत्वाद्वारा सूत्रगतेः, 'बाहिरए'त्ति औदारिकशरीरव्यतिरिक्तान् वैक्रियानिति, उल्लङ्घनं सकृत , प्रलङ्घनं पुनः २,'णो इणमडे'त्ति वैकियपुद्गलपर्यादानं विना वैक्रियकरणस्यैवाभावात् , बाह्यपुद्गलपर्यादाने तु पर्वतोल्लङ्घनादौ प्रभुः स्यात् , महतः पर्वतातिक्रामिणः शरीरस्य सम्भवादिति, 'मायी'त्ति (सू० १५९) मायावान् सकषायः प्रमत्त इति, अप्रमत्तो हि वैक्रियं न कुर्यादिति, वामेइत्ति
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy