SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ । वत्तव्यय'त्ति जीवाभिगमोक्ता, कियदुरं यावदित्याह-'जाव लोयट्टिई' यावल्लोकस्थितिः, लोयाणुभावे'त्ति लोकप्रभाव इति शतके तृतीयशते तृतीयोद्देशकविवरणम् ॥ ४ उद्देशः । तत्र 'भावियप्पत्ति भावितात्मा संयमतपोभ्यां, एवंविधानगाराणां हि प्रायोऽवधिज्ञानलब्धयः स्युरितिकृत्वा भावितात्मे-1 त्युक्तं, 'जाणवेणं'ति यानप्रकारेण-शिबिकाद्याकारवता वैक्रियविमानेनेति, 'जायमाणं ति यान्तं-गच्छन्तं 'जाणई' ज्ञानेन | 'पासई' दर्शनेन, उत्तरं तु चतुर्भङ्गी, विचित्रत्वादवधिज्ञानस्येति, 'अंतोत्ति मध्य काष्ठसारादि, 'बाहिति बहिर्वति त्वपत्र-1 सञ्चयादि 'जाव बीयंति यावत्करणात् मूलं १ कन्दः २ स्कन्धः ३ त्वक् ४ शाखा ५ प्रवालं ६ पत्रं ७ पुष्पं ८ फलं ९ बीज 1१० चेति पदानि, एतेषां पञ्चचत्वारिंशत् द्विकसंयोगाः स्युः, एतावन्त्येव चतुर्भङ्गीसूत्राण्यध्येयानि, 'जाणं'ति शकटं, 'जुग्ग'त्ति गोल्लविषयप्रसिद्धं, जंपानं द्विहस्तप्रमाणं वेदिकोपशोभितं, 'गिल्लित्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव 'थिल्लिति । लाटानामड्डपल्यानं तद् अन्यविषयेषु थिल्लीत्युच्यते, 'सीय'त्ति शिविका कूटाकाराच्छादिता, 'संदमाणिय'ति पुरुषप्रमाणायामा 'वाउकाए'त्ति वायुकायः 'पडागासंठिय'ति पताकासंस्थितं, स्वरूपेणैव वायोः पताकाकारशरीरत्वाद् वैक्रियावस्थायामपि तदाकारभावात् , 'आयडि'त्ति आत्मा आत्मलब्ध्या वा 'आयकम्मुण'त्ति आत्मक्रियया 'आयप्पओगेणं न परप्रयुक्त इति, 'उस्सिओदयं उच्छ्रितः-ऊर्ध्व उदयः-आयामो यत्र गमने तदुच्छ्रितोदय, ऊर्ध्वपताकमिति, 'पतोदयंति पतितपताकं गच्छति, ऊर्ध्वपताका स्थापना चेयम् पतितपताका स्थापना चेयम् |> 'एगओपडाग'त्ति एकतः-एकस्यां दिशि पताका यत्र तदेकतः पताकं स्थापना | दुहओपडागति द्विधापताकं, स्थापना त्वेवम् </>'बलाहए'त्ति (पू०१५७) मेघः, परिणामेत्ति
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy