SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Ham HDHI श्रीभगलघुवृत्तौ ३ शतके ३ उद्देशः ऐर्यापथिकी, केवलकाययोगप्रत्ययेति, किरिय'त्ति क्रिया-कर्म सातावेदनीयं 'कजइ'त्ति क्रियते भवतीति, उपशान्तमोहक्षीणमोहसयोगिकेवलिगुणस्थानकायवर्तिवीतरागोऽपि सक्रियत्वात् सातवेद्यं कर्म बनातीति भावः, 'बद्धपुट्ठ'त्ति बद्धा कर्मतापादनात् , | स्पृष्टा जीवप्रदेशैः स्पर्शनात , वेदिता अनुभूतस्वरूपा, निर्जीर्णा अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशटितेति, एतद्वाक्यान्तरेणाहबद्धा स्पृष्टा प्रथमसमये द्वितीयसमये उदीरिता-उदयमुपनीता, किमुक्तं स्यात् ?-वेदिता, न कसिन् समये उदीरणा उदयश्च | सम्भवति इत्येवं व्याख्यानं, तृतीये निर्जीर्णा, 'सेयकाले'त्ति एष्यत्काले 'अकम्मं वावित्ति अकर्मापि स्यात् । अथ यदुक्तं श्रम णानां प्रमादप्रत्यया क्रिया स्यात् , तत्र प्रमादपरत्वं तदितरत्वं संयतस्य कालतो निरूपयन्नाह-सव्वावि. य णं पमत्तद्धेति | (मू० १५३) सर्वापि-सर्वकालसम्भवापि च प्रमत्ताद्धा-प्रमत्तगुणस्थानकालः कालत:-कियन्तं कालं यावद् भवति इति प्रश्नः, 'एकं समयं' जघन्येन प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणात् , 'देसूणा पुब्बकोडिति किल प्रत्येकमन्तर्मुहूर्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति वा अप्रमत्तान्तर्मुहूर्तापेक्षया प्रमत्तान्तर्मुहूर्त्तानि कल्प्यन्ते, एवमन्तमुहूर्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मीलनेन देशोना पूर्वकोटीकालमानं स्यात् , अन्ये त्वाहुः-अष्टवर्षोनां पूर्वकोटी यावदुत्कर्षतः प्रमत्तसंयतता तस्यादिति, एवमप्रमत्तसूत्रमपि, नवरं 'जहपणे ति किलाप्रमत्ताद्धायां वर्तमानस्यान्तर्मुहूर्त्तमध्ये मृत्युन स्यात् , चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावात् , स चोपशमश्रेणी प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यते, देशोनपूर्वकोटी तु केवलिनमाश्रित्येति, 'अइरेयंति (मू० १५४) तिथ्यन्तरापेक्षयाऽधिकतरं 'लवणसमुद्द NDIHINIHIONamy mmHDHP WINDNHipsmiDHAN MAgimang,N-Din anings - -
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy