SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ WHECIAnitainmithilmanitlimini- ३ शतके २ उद्देशः A चतुर्भागयोजनापेक्षया चतुर्भागस्त्रिभिश्च योजनं स्यादिति भावः, अथ गतिकालाल्पबहुत्वमाह-'एयस्स णंभंते ! वजस्स'त्ति श्रीभगलघुवृत्तौ । 'एए णं दुणिवि तुल्ल'ति शक्रचमरयोः स्वस्थानगमनं प्रति गतिवेगसमत्वादुत्पतनावपतनकालौ तयोस्तुल्यौ परस्परेण, 'सव्वत्थोव'त्ति वक्ष्यमाणापेक्षयेति, तथा 'सक्कस्स'त्ति 'एस णं दुण्णिवि तुल्ले' उभयोरपि तुल्यः, शक्रावपतनकालो वज्रोत्पतनकालस्य तुल्यो वज्रोत्पातकालश्च शक्रावपतनकालस्य इत्यर्थः, संखेजगुणे त्ति शक्रोत्पातकालः चमरावपातकालापेक्षया,एवमनन्तरसूत्रमपि भावनीयम् ,'ओहयमण'त्ति (सू०१४७) अपहतो-ध्वस्तो मनसः सङ्कल्पो दर्पहर्षादिप्रभवो विकल्पो यस्य सः 'पल्थत्थमुहें त्ति पाणौ पर्यस्तं-अधो न्यस्तं मुखं येन सः 'अभित्ति अक्लिष्टः-अबाधितो निर्वेदतः 'उपसंपजित्ताणं ति उपसम्पद्य उपशान्तो भूत्वा विहरामि 'किंपत्तियं ति (मू०१४८) का प्रत्ययः-किं कारणं यत्र तत् किंप्रत्ययं, 'चरमभवत्थाणं'ति भवचरमभागस्थानां, च्यवनावसरे इत्यर्थ ॥ तृतीयशते द्वितीयचमरोद्देशकविवरणम् ।। 'अणुवरयत्ति (सू०.१४९) अनुपरतः-अविरतस्तस्य कायक्रिया अनुपरतकायक्रिया, इयमविरतस्य, 'दुप्पउत्त'त्ति दुष्टं प्रयुक्तं-प्रयोगो यस्य सः रतस्य कायक्रिया दुष्प्रयुक्तकायक्रिया, इयं प्रमत्तसंयतस्येति, विरतिमतःप्रमादे सति कायदुष्टप्रयोगसद्भावात , 'संजोयण'त्ति हलमुशलादीनां संयोजन-मीलनं तदेवाधिकरणक्रिया संयोजनाधिकरणक्रिया 'निव्वत्तण'त्ति निर्वर्तनं-असिशक्तितोमरादीनां निष्पादनं तदेवाधिकरणं तेन क्रिया निवर्त्तनाधिकरणक्रिया, 'जीवपाउसिय'त्ति जीवस्यात्मपरतदुभयोपरिप्रद्वेपितया क्रिया सा जीवप्रद्वेषिका, 'अजीवपाउसिय'त्ति अजीवानां-स्तम्भभारपट्टभित्तिप्रभृतीनामुपरि कर| शिरोधातादिना यत् प्रद्वेषकरणं सा अजीवप्रवेषिका । 'पमायपच्चया' (मू० १५१) प्रमादः प्रत्ययो-निमित्तं यस्याः सा प्रमाद
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy