________________
श्रीभग लघुवृत्तौ|
३ शतके २ उद्देश:
व्यथन्ते 'पन्वथेंति' प्रव्यर्थते-प्रकर्षेण कदर्थयन्ति । 'तत्थ'त्ति (सू. १३६) जातभयाः 'तिवलिन्ति त्रिवलिका-भ्रूकुटिं दृष्टिविकाररूपां 'भीय'त्ति त्रस्ता भयाजातोत्कम्पादिभयभावाः, तृषिताः शुपितानन्दरसाः, उद्विग्नाः त्यागमानसाः, 'समतुरंगे'त्ति समाश्लिष्यन्तः, अन्योऽन्यमनुप्रविशन्त इति वृद्धाः, 'नाइभुज्जो नैव भूयः 'एवं करणयाए' एवंकरणाय सम्पत्स्यामहे, 'आणाउववाय'त्ति आज्ञा इदं कर्त्तव्यमेवेति, उपपातः-सेवावचनं, भृत्ययोग्य आदेशः, निर्देशः प्रश्निते कार्ये नियतार्थमुत्तरम् , तत एषां द्वन्द्वस्तत्र, 'उच्चतराए'त्ति (सू. १३७) उच्चत्वं प्रमाणतः उन्नतत्वं गुणतः।। 'से कहमियाणि'ति (सू. १३८) अथ कथ| मिदानीं-अस्मिन् काले कार्यावसरलक्षणे प्रकुरुतः, कार्याणि इति गम्यं, 'इति भो'त्ति परस्परालापानुकरणम् । 'आणुकंपिए' (सू. १४०) कृपावान् 'निस्सेयसिए' निःश्रेयसो-मोक्षः तत्र नियुक्त इव नैःश्रेयसिकः। 'तीसगकुरुदत्ताणं'ति (*२४-२५) | तिष्यककुरुदत्तसाध्वोः क्रमेण षष्ठमष्टमंच तपः, मासोऽर्द्धमासश्चानशनं, तथैकस्याष्ट वर्षाणि अन्यस्य च षण्मासा इति, द्वयोरपि भक्तपरिज्ञा अनशनं दीक्षापर्यायश्च । तृतीयशते प्रथमोद्देशकविवरणम् ३-१॥
'विउब्वेमाण'त्ति (सू० १४१) संरम्भेण महद्वैक्रियशरीरं कुर्वन्तः, 'परियारे'त्ति परिचारयन्तः-परकीयदेवीपरिभोगं कर्तुकामाः 'अहालहुस्सगाई यथोचितानि लघुखकानि-अमहास्वरूपाणि दिव्यस्त्रीरत्नानि 'आयाए'त्ति आत्मना स्वयं 'एगंत'विजनं 'अंतं ति देशं, 'से कहमियाणि ति अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नादातृणां इति, 'तओ से त्ति ततो रत्नादानात् 'पच्छत्ति अनन्तरं 'सेत्ति तेषां रत्नादातृणां असुराणां कायं प्रव्यथन्ते-प्रहारैर्मनन्ति वैमानिका देवाः, तेषां प्रव्यथितानां वेदना जघन्येनान्तर्मुहूर्त्तमुत्कृष्टः षण्मासान यावत् , 'से'त्ति अथ दृष्टान्तोपन्यासे, 'जहा नाम
॥५७||