SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ negimmal श्रीभग लोकाकाशादिना यस्तस्य स्पर्शनादिगतो व्यवहारो यथोलोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थमिति, 'अद्धा- २ शतके लघुवृत्तौ । | समए'त्ति अद्धा-कालस्तल्लक्षणः समय:-क्षणः अद्धासमयः, स चैक एव, वर्तमानलक्षणः, अतीतानागतयोरसवात् । अथालोका- १० उहे. काशं प्रति प्रश्नयन्नाह-'पुच्छा तह चेव (सू. १२१)यथा लोकप्रश्नः तथैव, निर्वचनं तेषां षण्णामपि निषेधः, एगे अजीवदव्वदेस'त्ति अलोकाकाशस्य देशत्वं लोकालोकाकाशद्रव्यस्य भागरूपत्वात् ,'अगुरुलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् , 'अणंतेहिं अनन्तैः स्वपर्यायपरपर्यायरूपैगुणैः, अगुरुलघुस्वभावरित्यर्थः, 'सव्वागासे'त्ति अलोकाकाशस्य लोकाकाशसम्बद्धत्वेन अलोकाकाशं सर्वाकाशमित्युच्यते,'अणंतभागूणे त्ति लोकाकाशस्यालोकाकाशापेक्षया अनन्तभागरूपत्वात तेनालोकाकाशमनन्तभागोनमित्यर्थः।। अथ धर्मास्तिकायादिप्रमाणमाह-'केमहालए'त्ति (सू, १२२) लुप्तभावप्रत्ययत्वात् निर्देशस्य किं महत्त्वं यस्यासौ किंमहत्त्वः, IN 'लोएत्ति लोको लोकप्रमितत्वात , लोकमात्रो लोकप्रमाणः, 'लोयफुडे'त्ति लोकेन-लोकाकाशेन सकलस्वप्रदेशः स्पृष्टो लोकस्पृष्टः,'लोयं चेव'त्ति लोकमेव च स्पृष्टा स्वप्रदेशस्तिष्ठतीति । 'अहोलोएणं'ति (म. १२३ ) 'सातिरेगमद्धं ति लोकव्यापकत्वाद्धर्मास्तिकायस्य सातिरेकसप्तरज्जुप्रमाणत्वाचाधोलोकस्य 'असंखेन्जइभार्ग'ति असङ्ख्यातयोजनप्रमाणस्य धर्मास्तिकायस्य | ऊर्ध्वाधो मेरुरुचकादि अष्टादशयोजनशतप्रमाणस्तिर्यग्लोकः, यतः-'सगरज्जू तिरियाऽट्ठारसजोयणसय'त्ति लोकनालिवचनात् | इति, असङ्ख्यातभागवर्तीति तस्यासावसङ्ख्येयभागं स्पृशति, 'देसूणमद्धं ति देशोनसप्तरज्जुप्रमाणत्वाव॑लोकस्येति, इमाणं । भंतेत्ति इह रत्नप्रभायां प्रथमं रत्नप्रभासूत्रं घनोदधिसूत्रं धनवातसूत्रं तनुवातसूत्रं ४ अवकाशान्तरसूत्रं पञ्चम, एवं प्रति पृथिवीं पञ्चसूत्राणि स्युः, ततः सप्तानां पञ्चभिर्गुणने जातानि पञ्चत्रिंशत्पूत्राणि, द्वादशदेवलोकसूत्राणि द्वादश, अवेयकसूत्राणि त्रीणि,
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy