________________
श्रीभग- लघुवृत्ती
शतके . १० उद्दे.
paamRAILERS HTOARINDORRIDORATOPATIHDaman ROLL INSTATill tutoil mms
TRI MISC
mint
गुणे'त्ति स्थितिपरिणतजीवपुद्गलानां स्थित्युपष्टम्भहेतुर्मानानां स्थलमिव, अवगाहणागुणे'त्ति जीवादीनामवकाशहेतुःबदराणां कुण्डमिव, 'उवओगगुणे'त्ति उपयोगः-चैतन्यं साकारमनाकारभेदं, 'गहणगुणे'त्ति ग्रहणं-मिथःसम्बन्धनं जीवेन औदारिकादिप्रकारैः ।। 'खण्डे चके'त्ति (सू० ११८) खण्डं च-ऊनं न स्यात् , किन्तु सकलमेव चक्रं स्यात् , एवं धर्मास्तिकायः प्रदेशेन न्यूनो न धर्मास्तिकाय इति वक्तव्यः स्यात् इति निश्चयनयमतं, व्यवहारनयमतं तु एकदेशेन न्यूनमपि वस्तु वस्त्वेव, यथा खण्डोऽपि घटो घट एव, छिन्नकर्णोऽपि श्वा श्वैव,भणितं च 'एकदेशविकृतमनन्यवदिति, एवं 'मोयए'त्ति मोदकोऽपि, ‘से किं खाई ति अथ किंपुनरित्यर्थः, सर्वे-समस्ताः ते च देशापेक्षयापि स्युरतः 'कसिणे'त्ति कृत्स्नाः, 'पडिपुण्ण'त्ति प्रतिपूर्णाः-आत्मस्वरूपेणाविकलाः 'निरवसेस'त्ति प्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः, 'एकग्गहणगहिय'त्ति एकशब्दग्रहणेन धर्मास्तिकाय इत्येवंलक्षणेन गृहीता ये ते, एकशब्दाभिधेया इत्यर्थः, नवरं 'तिण्हंपि पएसा अणंता भाणियव्य'त्ति, धर्माधर्मयोरसङ्ख्येयाः | प्रदेशा उक्ताः, आकाशादीनामनन्ताः प्रदेशा वाच्याः, अनन्तप्रदेशिकत्वात्रयाणामपि, 'सउहाणे'त्ति (सू० ११९) इत्यादि विशेष॥णानि सिद्धजीवव्युदासार्थानि, 'आयभावेणं'ति उत्थानशयनगमनभोजनादिरूपेणात्मपरिणाम विशेषेण, 'जीवभावति जीवत्वं
चैतन्यमुपदर्शयति-प्रकाशयति इति, 'वत्तव्वं ति वक्तव्यं स्याद् , विशिष्टस्योत्थानादेविशिष्टचेतनापूर्वकत्वादिति, 'अणंताणमाभिनियोहियनाणपज्जब'त्ति पर्यवाः-प्रज्ञाकृता अविभागपलिच्छेदाः, ते चानन्ता आभिनियोधिकज्ञानस्य, अतोऽनन्तानामामिनिबोधिकज्ञानपर्यवाणां सम्बन्धिनामनन्ताभिनियोधिकज्ञानपर्यवात्मकं उपयोग-चेतनाविशेष गच्छति इति हृदयस्थं, उत्थानादावात्मभावे वर्तमान इति योगः, अत'उवओगलक्खणेणं ति उपयोगलक्षणो जीवस्तेनार्थेन-तस्मात् कारणादुपयोगलक्षणं जीव
Maintain Amit NaOHAHANI HINDI MOHIDHMATIOIN HIOOL HINDI