SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीभगलघुवृत्तौ तत एतद्विहीनं यथा स्यात्तथा जीवाभिगमवक्तव्योद्देशसूत्रमत्र ज्ञेयं, 'जाव इमा गाह'त्ति 'अरहंत समय बायर विज्जू थणिया बलाहगा अगणी । आगर णिहि नह उवराग निग्गमे बुडिवयणं च ॥१॥ जम्बूद्वीपादीनां मानुषोत्तरान्तानामर्थानां वर्णनान्ते इदमुक्तम्- 'जावं च णं माणुसुत्तरे पव्वए तावं च णं अस्सि लोएत्ति पबुच्चर' मनुष्यलोक उच्यते 'अरहंत' त्ति 'जावं च णं अरहंता चक्कवट्टी जाव सावियाओ मणुया पगइभद्दया पगइविणीया तावं च णं अस्सिलोएति पवुच्चइ' 'समय'त्ति 'जावं च णं समयाइ वा आवलियाइ वा जाव अस्सिलोए० एवं जाव बायरे बिज्जू बायरे थणियसद्दे जावं च णं उराला बलाहया संसेयंति' 'अगणि'त्ति 'जावं च णं बायरे तेउयाए जावं च णं आगराइ वा निहीइ वा नई वा उवरागत्ति चंदोवरागाइ वा सूरोवरागाइ वा तावं चणं अस्सिलोए' उपरागो - ग्रहणं 'निरगमे वुडिवयणं'ति यावन्निर्गमादीनां वादनं - प्रज्ञापनं तावन्मनुष्यलोक इति, तत्र 'जावं चणं चांदेमसूरिया जाव तारारूवाणं अइगमणं निग्गमणं बुड़ी निव्वुड़ी आघविजइ, तावं च णं अस्सि ० ' अतिगमनमिहोत्तरायणं, निर्गमनं - दक्षिणायनं, वृद्धिर्दिनस्य वर्द्धनं, निवृद्धिस्तस्यैव हानिरिति । द्वितीये नवम उद्देशकः ॥ 'अस्थिकाया' (सू. ११७) अस्तिशब्देन प्रदेशा उच्यन्ते तेषां काया-राशयो अस्तिकायाः, अथवा अस्तीत्ययं निपातः कालत्रयवाची, ततोऽस्तीति सन्ति आसन् भविष्यति च ये काया इति धर्मास्तिकायादयः, तत्र मङ्गलत्वादादौ धर्मास्तिकाय उक्तः, तद्विपक्षोऽधर्मास्तिकायः, तदाऽऽधारत्वादाकाशास्तिकायः, ततोऽन्तरं त्वमूर्त्तत्वसाधर्म्याञ्जीवास्तिकायः, तदुपष्टम्भकत्वात् पुद्गलास्तिकायः, 'अवट्ठिए' अवस्थित प्रदेशाः, 'लोगदव्वे 'त्ति लोकस्य - पञ्चास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यं, 'भावओ'त्ति पर्यायतः, 'गुणओ'त्ति कार्यतः, 'गमणगुणे'त्ति जीवपुद्गलानां गतिपरिणतानां गत्युपष्टम्भहेतुमनानां जलमिवेति 'ठाण २ शतके ९ उद्देशः ॥५३॥
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy