________________
श्रीभग
२ शतके ८ उद्देशः
लघुवृत्ती
| तस्य सर्वस्योच्छ्यादिप्रमाणं सौधर्मवैमानिक विमानप्राकारप्रासादसभादिवस्तुगतस्य प्रमाणस्थाद्धं नेतव्यं, तथाहि-सौधर्मदेववि-1 मानप्राकारस्त्रीणि योजनशतान्युच्चत्वेन एतस्याः सार्द्धशतं, सोधर्मविमानमूलप्रासादः पञ्च योजनशतानि, तदन्ये चत्वारस्तत्परिवा
रभूताः साढे द्वे शते प्रत्येकं च तेषां चतुर्णामन्ये परिकरभृताश्चत्वारः सपादं शतं तदन्ये तत्परिकरभूताः ४ सार्द्धा द्विषष्टिः, एवMमन्ये सपादमेकत्रिंशत् , इह तु मलप्रासादःसाढ़े द्वे योजनशते एवमर्झर्द्धहीनास्तदपरे यावदन्तिमाः १५ योजनानि पश्च योज
नस्याष्टांशाः, एतदेव वाचनान्तरे उक्तं-'चत्तारि परिवाडिओ पासायवडिंसगाणं अद्धद्धहीणाओ'त्ति, एतेषां प्रासादानां चतसृष्वपि परिपाटिषु त्रीणि योजनशतानि एकचत्वारिंशदधिकानि स्युः, एतेभ्यः प्रासादेभ्य उत्तरपूर्वस्यां-ईशानदिग्भागे सभा सुधर्मा सिद्धायतनमुपपातसभा ह्रदोऽभिषेकसभा व्यवसायसभा वा, एतानि सुधर्मसभादीनि सौधर्मवैमानिकसभादिभ्यः प्रमाणतोऽर्द्धप्रमाणानि, एषामुच्छ्यः ३६ योजनानि, पञ्चाशदायामो विष्कम्भश्च पञ्चविंशतिरिति, सर्व च जीवाभिगमोक्तं विजयदेवसम्बन्धि चमरस्य वाच्यं, यावदुपपातसभायां सङ्कल्पश्चाभिनवोत्पन्नस्य-किं मम पूर्व पश्चाद्वा कत्तुं श्रेय इत्यादिरूपः, अभिषेकसभायामभिषेको महा सामानिकादिदेवकृतः, अलङ्कारपर्षदि वस्त्रालङ्कारादि, व्यवसायसभायां पुस्तकवाचनं, 'अचणिय'त्ति अर्चनिका सिद्धायतनसिद्धप्रतिमादीनां 'सहगमोत्ति सुधर्मसभागमनंच,चमरस्य परिवारश्च सामानिकादिः,'इद्धित्तं' ऋद्धिमत्त्वं वाच्यमिति ॥ द्वितीयेऽष्टम उद्देशकः।। ML 'समयखेत्तत्ति' (सू० ११६) समयः-कालस्तेन युक्तं क्षेत्रं समयक्षेत्रं, कालो हि दिनमासादिरूपः सूर्यगतिसमभिव्यङ्गयो मनु
प्यक्षेत्रे एव, न परतः,परतो हि न सूर्यास्संचरिष्णव इति जीवाभिगमवक्तव्यता नेतव्या,एषा चैवम्-'एगंजोयणसयसहस्सं आयामविक्खंभेण'मित्यादि, 'जोइसविहणं'ति जीवाभिगमोक्तजम्बूद्वीपादिमनुष्यक्षेत्रवक्तव्यतायां ज्योतिष्कवक्तव्यता उक्ताऽस्ति