SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीभगलघुवृत्तौ र्यत इति, द्वितीयेशते षष्ठ उद्देशकः २ ६ । 'जहा ठाणपए' (सू० ११४) यथा प्रज्ञापनायां द्वितीये स्थानाख्यपदे च वक्तव्यता सेति तथा भणितव्या, सा चैवम्- 'इमीसे रयणप्पभाए असीउत्तरजोय णसय सह स्सबाहल्लाए उवरिमेगं जोयणसहस्समोगाहेत्ता हेडा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अत्तरजोयणसयसहस्से एत्थ णं भवणवासीणं देवाणं सत्त भवणको डीओ बावन्तरिं च भवणावाससय सहस्सा भवतीतिमक्खाय' मित्यादि, 'उबवाएणं' ति उपपातो - भवनपतिस्वस्थानप्रात्याभिमुख्यं तेन, उपपातमाश्रित्येत्यर्थः, लोकस्यासङ्ख्येयतमे भागे वर्त्तन्ते भवनवासिन इति, एवमन्यदपि भणितव्यं तच्चेदं 'समुग्धाएणं लोगस्स असंखिज्जभागे' मारणान्तिकादिसमुद्धा - तवर्त्तिभवनपतयो लोकासख्येयभागे वर्त्तन्ते, 'सहाणेणं लोगस्स असंखिज्जभागे' स्वस्थानस्योक्त भवनावाससातिरेककोटीसप्तलक्षणस्य लोकसङ्ख्येय भागवर्त्तित्वादिति, एवं दाक्षिणात्यानां चासुरादीनामौदीच्यानां नागादीनामपि तथौचित्येन व्यन्तरज्योतिष्क वैमानिकस्थानानि वाच्यानि यावत्सिद्धिगण्डिका, 'कप्पाणन्ति कल्पानां प्रतिष्ठानं आधारो वाच्य इति, स चैवम्'सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणपुढवी किंपइडिया पं० १, गो० ! घणोद हिपइडिया पन्नत्ता, आह च " घणउदहिपड्डाणा, सुरभवणा होंति दोसु कप्पेसु । तिसु वा उपइड्डाणा, तदुभयसुपट्टिया तिसुवि ॥ १ ॥ तेण परं उबरिमगा आगासंतरपइडिया सब्वे ।" | 'बाहले 'ति विमानपृथिवीपिण्डो वाच्यः, स चैवं- 'सोहम्मीसाणेसुणं भंते! कप्पेसु विमाणपुढवी किंवा हल्लेणं पं० १, गो० ! सत्तावीसं जोयणसयाई' इत्यादि, आह च - "सत्तावीस सयाई आइमकप्पेसु पुढविवाहलं । एक्केकहाणि सेसे दु दुगे य दुगे चउके य ||२||" ग्रैवेयकेषु द्वाविंशतियोजनशतानि, अनुत्तरेष्वेकविंशतिरिति, 'उच्चत्तं'ति विमानोच्चत्वं वाच्यं तच्चैवं- 'सोहम्मी० विमाणा केव २ शतके |७ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy