SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीभग लघुवृत्तौ बलिकर्म स्नानानन्तरं यैस्ते स्वगृहदेवतानां दुःस्वप्नादिविघातार्थं कृतानि कौतुकमङ्गलप्रायश्चित्तानि यः, अवश्यं करणीयत्वात्, कौतु कानि-मपीतिलकादीनि मङ्गलानि - सिद्धार्थदध्यक्षतदूर्वाचन्दनादीनि 'सुद्धप्पा' शुद्धात्मानो वेष्याणि – वेषोचितानि, 'विउसरणायाएं' व्युत्सर्जनया-त्यागेन, त्रिविधया मनोवाक्कायभेदात् पर्युपासनया 'महइमहालियाइ 'ति (सू. १०९) आलप्रत्ययस्य स्वार्थिकत्वात् महातिमहत्याः पर्षदः, 'अणण्यफले' अनाश्रवफलः, अनाश्रवो - नवकर्मानुपादानं फलमस्येति अनाश्रवफलः, 'बोदाणफले' त्ति व्यवदानं - पूर्वकृतकर्मवनगहनलवनं प्राकृतकर्मशोधनं वा फलं यस्य तद् व्यवदानफलं, 'तवे' इति 'किंपत्ति - यत्ति कः प्रत्ययः कारणं यत्र तत्किं प्रत्ययं निष्कारणमेव, तपस्संयमयोः उक्तनीत्या तदकरणत्वादित्यभिप्रायः, 'पुव्वतवे'ति पूर्वतपः- सरागावस्थाभावितपस्या, वीतरागावस्थापेक्षया सरागावस्थायाः पूर्वकालभावित्वात् एवं संयमोऽपि, अयथाख्यातचरित्रमिति, सरागकृतेन संयमेन तपसा च देवत्वावाप्तिः, रागांशस्य कर्मबन्धहेतुत्वात्, 'कम्मियाए' ति कर्म विद्यते यस्यासौ कर्मी तद्भावस्तत्ता तया कर्मितया, 'संगियाए 'त्ति सङ्गोऽस्यास्तीति सङ्गी तद्भावस्तत्ता तया सङ्गितया, सत्सङ्गो हि द्रव्यादिषु संयमादियुक्तोऽपि कर्म बनाति, ततः सङ्गितया देवत्वाप्तिरिति, आह च - "पुव्वतवसंजमी होंति रागिणो पच्छिमा अंरागस्स । रागो संगो वृत्तो संगा कम्मं भवो तेणं ॥ १॥" 'नो चेव णं आयभाववत्तव्वया' नैवात्मभाववक्तव्यतया, अयमर्थः - आत्मना च खाभि| प्राय एव न वस्तुतत्त्वं वक्तव्यो वाच्यो येषां ते तेषां भाव आत्मभाववक्तव्यता- अहंमानिता तया, एवमहंमानितया न ब्रूमो वयं, अपि तु परमार्थ एवायमिति भावना, 'अतुरियं' ति (सू. ११०) कायिकत्वरारहितं, 'अचवलं'ति मानसचापल्यरहितं असम्भ्रान्तज्ञान: 'घरसमुदाणस्स' गृहेषु समुदानं भैक्ष्यं गृहसमुदानं तस्मै गृहसमुदानाय, चतुर्थ्यर्थं षष्ठी, 'भिक्खायरियाए ' २ शतके ५ उद्देशः
SR No.600313
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Jain Shwetambar Sanstha
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1935
Total Pages600
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy