________________
५ उद्देशः
श्रीभग- योनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्ते, कस्यामसावुत्पद्यते ?, 'कम्मकडाए'त्ति नामकर्मनिवर्त्तितायां योनौ, अथवा कर्मलघुवृत्तौ । | मदनोद्दीपकव्यापारस्तत् कृतं यस्यां सा कर्मकृता तस्यां, मैथुनस्य वृत्तिः-प्रवृत्तिर्यस्मिन्नसौ मैथुनं वा-प्रत्ययो-हेतुर्यस्मिन् स मैथु
नप्रत्ययिकः, 'ते दुहओ'त्ति ते इति स्त्रीपुरुषौ उभयतः स्नेह-रेतःशोणितलक्षणं सचिनुतः-सम्बन्धयतः ॥ अथ मैथुनस्यैवासंयमहेतुतामाह-'रूयनालियं वत्ति (सू० १०५) रुतं-कर्यासविकारः, तद्भता नालिका तां, बूरनालिकामपि, नवरं बरं-वनस्पतिविशेषावयवविशेषः, 'समभिधंसेज'त्ति समभिध्वंसयेत् ॥ तेण'मित्यादि(सू०१०६) अद्ध'त्ति आढ्या धनादिभिः 'दित्त'त्ति दीप्ताः, 'वित्थिण्ण'त्ति विस्तीर्णानि-विपुलानि प्रचुराणि भवनानि-गृहाणि शयनासनवाहनैराकीर्णानि-व्याप्तानि येषां ते तथा, तत्र यानं-गन्त्र्यादि वाहनं त्वश्वादि, बहुधण'त्ति बहुधनं-गणिमादि,तथा बढेव जातरूपं-सुवर्ण रजतं रूप्यं येषां ते तथा, 'आओग'त्ति आयोगो-द्विगुणादिवृद्ध्याऽर्थप्रदानं प्रयोगः-कलान्तरं तौ सम्प्रयुक्तौ-व्यापारितौ यस्ते, विच्छड्डिय'त्ति विच्छर्दितं-विविधमुज्झितं बहुलोकभोजनतः उच्छिष्टावशेषसम्भवात् , विपुलं भक्तं पानकं येषां ते, बहवो दासीदासा येषां ते, गोमहिषगवेलकाश्च प्रभूता येषां, गवेलका-उरभ्राः, 'आसवे'त्यादी क्रिया-कायिक्यादयः, अधिकरणं-गत्रीमुशलोदपलाः 'असहेज'त्ति न विद्यते। साहाय्यं-परसाहायिकमत्यन्तसमर्थत्वाद्येषां ते असहाय्याः ते च ते देवादयश्च, अथवा असाहाय्या इति व्यस्तमेव, असुरा नागा | भवनपतयः, 'सुवण्ण'त्ति सद्वणों-ज्योतिष्काः, यक्षादयः सर्वे व्यन्तरविशेषाः, लब्धार्था अर्थश्रवणात् , गृहीतार्था अर्थावधार|णात , पृच्छितार्थाः प्रश्नकरणात , अधिगतार्थाः प्रश्नार्थाभिगमात् , 'अद्विमिंज'त्ति अस्थीनि च-कीकसानि मिञ्जा च तन्मध्य. वर्ती धातुः, अस्थिमिञ्जाः, प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते, अथवाऽस्थिमिञ्जासु जिन
RMILARIORAILalyan TammmmmmmmitTARIUTAImmanianimumtamnnuRRISTIAHINITARIDHI
m mun
Ganes