________________
हिज्ञानादित्यर्थः 'सम्यग्विभाव्यते' न्यायतो निश्चीयते, तदालम्बनत्वात्तस्य ॥ २६३ ॥ यदि नामैवं ततः किमित्याह'तस्यां चे' त्यादि, 'तस्यां च' तुच्छतायां नागृहीतायां सत्यां 'तत्' वस्तु 'तथेति' क्षणस्थितिधर्मकमिति विनिश्चयो भवति, कुतः ? इत्याह- नहि 'इन्द्रियं चक्षुरादि 'अतीतादिग्राहकं' अतीतैष्यत्परिच्छेदकं सद्भिरिष्यते, वर्त्तमानार्थग्रा हित्वात् प्रकृतेरपोहेन ॥ २६४ ॥ प्रस्तुतोपचयमाह - 'अन्तेऽपीत्यादिना - 'अन्तेऽपी'ति विसभागसन्तत्युत्पत्तावपि दर्शनं नास्य - घटाद्यसत्त्वस्य क्वचिदिति योगः, कुतः ? इत्याह- 'कपालादिगतेः' कपालादिपरिच्छेदात्कारणात् स्यात्कपालाद्येव घटाभावः ? इत्यत्राह-न 'तदेव' कपालादि 'घटाभावो' घटादिनाशः घटाद्य सत्त्वमितियावत् कस्मात् ? इत्याह - 'भावत्वेन प्रतीतितः सत्त्वेनानुभवात् ॥ २६५ ॥ तत एव तद्गतिरित्येतदपि नेत्याह- 'न तद्गते' रित्यादिना - न 'तद्गतेः' कपालादिपरिच्छेदाद्गतिः 'तस्य' घटाद्यभावस्य कुतः ? इत्याह- 'प्रतिबन्धविवेकतः' घटाद्यभावस्य कपाला|देश्व प्रतिबन्धविरहात्, पक्षान्तराङ्गीकरणे दोषमाह - 'तस्यैव' कपालादेः 'अभवनत्वे तु' घटाद्यभवनत्वे त्वभ्युपगम्यमाने भावाविच्छेदस्यैवान्वयत्वादिति ॥ २६६ ॥ उपसंहरन्नाह - 'तस्मा' दित्यादि, यस्मादेवं तस्मादवश्यम् 'एष्टव्यम्' अङ्गीकर्त्तव्यं 'तदृर्द्ध' क्षणस्थितिधर्मणः सत्त्वादूर्द्ध 'तुच्छमेव तत्' असत्त्वमेव व्यवस्थितं ज्ञेयं, सद्विषयतया ज्ञायते चैतद् -असत्त्वं 'अपरेणापि' ज्ञानान्तरेण, 'युक्तिमत्' न्याय्यं तावद् एतत् सत्त्वपरेणैव सर्वथा तद्वेदिना ज्ञायत इत्यभि - प्रायः ॥ २६७ ॥ एवमसत्त्वस्योत्पत्त्याद्यभिधायानिष्टापत्तिपरिजिहीर्षयाऽऽह - 'नोत्पत्त्यादे' रित्यादि, नोत्पत्त्यादेः कारणात् 'तयो:' सत्त्वासत्त्वयोः 'ऐक्यं' तुल्यत्वं, कुतः ? इत्याह- 'तुच्छेतरविशेषतः ' तुच्छेतरत्वभेदात् निवृत्तिभेदत