________________
शास्त्र हारि० १चावोकस्तबक:
'तदभावे' ज्ञेयत्वाभावे न तज्ज्ञानम्' असत्त्वज्ञानं, ततः किमित्याह-तन्निवृत्त' सत्त्वनिवृत्तः 'गतिः कथं' परि- असतस्तुच्छेदः कथमिति ॥२५८ ॥ पराभिप्रायमाशय परिहरति-तत्तद्विध' इत्यादिना-तत्-सत्त्वं, तद् वस्तु, 'तद्विधख-15 च्छताया भावं' निवृत्तिरूपधर्माकं 'यत्' यस्मात् तस्मात् 'प्रत्यक्षेण वस्त्वध्यासना (सेन) 'तथैव हि स्वधर्मवदेव 'गृह्यतेह असिद्धिः परिच्छिद्यते, यत एवं 'तद्गतिः सत्त्वनिवृत्तिगतिः तेन कारणेनात्र परिहारे नैतद् यदुक्तं परेण, कुतः? इत्याह-'क्वचिदनिश्चयात् प्रतीत्यभावेन सर्वत्रानिश्चयात्, यद्वा क्वचित्सभागसन्ततावनिश्चयादिति ॥ २५९ ॥ पराभिप्रायमाह'समारोपा'दित्यादिना-'समारोपात् तत्तुल्यसत्त्वाध्यारोपेण 'असौ' निश्चयो नेति, 'गृहीतं' परिच्छिन्नं तत्त्वतस्तु तदसत्त्वं, कुतः? इत्याह-यथाभावग्रहात् 'तस्य' प्रत्यक्षस्य, यथाभावमेवैत(द्वस्तु) तद्हाति, तद्बलोत्पत्तेः, अत्र परिहारः -अतिप्रसङ्गात्कारणात् 'अदोऽपि असद् एतदपि यत्किञ्चित् ॥ २६०॥ कुतः? इत्याह-'गृहीत'मित्यादि, गृहीतं सर्व त्रैलोक्यम् ‘एतेन' विवक्षितज्ञानेन, 'तत्त्वतः' परमार्थतः तत्प्रतीत्योत्पत्तेः, अत्र परिहारः-निश्चयः पुनः सर्वविषयः 'मितग्रहसमारोपात् मितग्रहणाध्यारोपेण 'इति' एवं तत्त्वव्यवस्थितेः कारणाददोऽप्यसदिति योगः॥२६१॥ अत्रैवोपचयमाह-'एकत्रेत्यादिना-एकत्र निश्चयः सत्त्वे, अन्यत्र-असत्त्वे निरंशानुभवादपि-अविशिष्टानिमित्तान्न तथासत्त्वनिश्चयः पाटवाभावाद्-अधिकृतानुभवमान्द्यादित्येवमपूर्वमिदं तमः, निरंशस्य पाटवापाटवायोगात् ॥२६२॥ प्रस्तुतमेव समर्थयति-स्वभाव' इत्यादिना-खभावक्षणतः स्वसत्त्वक्षणात् 'ऊर्द्ध द्वितीयक्षणे 'तुच्छता' तदसत्त्वरूपा, कुतः? इत्याह-तन्निवृत्तितः तस्य निवृत्तेः, यत एवमतो न 'असौ' तुच्छता एकक्षया(णग्रा)हिज्ञानात्, सन्मात्रग्रा