SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ यदच्यते भवता-तुच्छतया तुच्छताप्ती चेति न तन्निवृत्तिः, किन्तु 'भावोऽस्तु' (अ)तुच्छता भवतु, एवमेवैतन्निवृत्त्युपपत्तेरिति । पर आह–'नासत्सदिति, कथं चासत्सद्भवति येनोच्यते तुच्छतानिवृत्तौ भावोऽस्त्वित्यभिप्रायः, अत्रोत्तरंसदसत्कथमिति, एतदुक्तं भवति-यद्यसत्सन्न भवति, प्रकृत्यन्यथात्वायोगेन, ततः सदसत्कथं भवतीति ॥ २५४ ॥ पर आह-'स्वहेतो'रित्यादि, 'खहेतोरेव' स्वकारणादेरेव 'तत् सत्त्वं 'जातम्' उत्पन्नं 'तत्वभावम्' असद्भवनस्वभावं 8 'यतः' यस्मात् तस्मात्सदसद्भवतीति न दोषः, अत्रोत्तरं-ननु यद्येवं 'तदनन्तरभावित्वात्' सत्त्वानन्तरभावित्वाद् 'इतरत्रापि' असत्त्वे 'अदः' एतत् स्वहेतोरेव जातादिकल्पनं 'सम' तुल्यमेवेत्यर्थः ॥ २५५ ॥ पर आह-'नाहेतो रित्यादि, 'नाहेतोः' नाकारणस्य 'अस्य' असत्त्वस्य भवनम् , असत्त्वे नापि तथा, न 'तुच्छे' निःस्वभावेऽस्मिन् (तत्) 'स्वभावता' सद्भावता, यत एवं ततः कथं नु तद्भावः' असतः सद्भावो?, नैवेत्यर्थः, इत्येवं 'युक्त्या न्यायेन कथं समं?, स्वहेतोरेव जातादिकल्पनमिति ॥२५६॥ अत्रोत्तरमाह-'स एवेत्यादिना-स एव भावो योऽसौ न भवति 'तद्धेतु' असत्त्व हेतुः, कुतः? इत्याह-'अ(त)स्यैव हि भावस्य 'तदा' द्वितीयसमये 'अस्थितेः' अभवनाद्, एतेनासत्त्वस्य तदनन्तर भावित्वं नियमवदाह, एतच्च न तत्त्वतो हेतुफलभावाङ्गमिति, तथा स्वनिवृत्तिः-स्वामा(त्म)निवृत्तिः स्वभावो-धर्मोऽस्य -सत्त्वस्य, भावस्यैव हेतुसामर्थ्यात् , यत एवं ततो न किं युक्त्या समं स्वहेतोरेव जातादिकल्पनं १, सममेव, न्यायस्य तुल्यत्वादभ्युपगमविचाराधिकाराच ॥ २५७ ॥ अत्रैवोपचयमाह-'ज्ञेयत्वव'दित्यादिना-ज्ञेयत्ववत् यथा ज्ञेयत्वं तद्धल स्वभावोऽपि न चायुक्तः, किन्तु युक्त एव, 'अस्य' असत्त्वस्य 'तद्विधः' सद्भावनप्रकारः, यथा ज्ञेयत्वमपि न तत्रेत्याह शा.स. ७
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy