SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० १ चार्वाक स्तबकः ॥ ३८ ॥ चैव सत्त्वस्य निवृत्तिः तुच्छाऽसत्त्वस्य त्वतुच्छेति वृत्तिभेदः, हेत्वन्तरमाह - बुद्धिभेदाच्च, तथा हि सत्त्वे सत्त्वबुद्धिरसत्त्वे चासत्त्वबुद्धिरिति बुद्धिभेद:, अस्माच्च भाव्यतां न तयोरैक्यमिति ॥ २६८ ॥ एवं परपक्षप्रसङ्गमभिधाय यदनेनापाकृतं तदुपन्यस्यन्नाह - एतेनैतत्प्रतिक्षिप्तं, यदुक्तं न्यायमानिना । न तत्र किञ्चिद्भवति, न भवत्येव केवलम् ॥ २६९ ॥ | भावे ह्येष विकल्पः स्याद्विधेर्वस्त्वनुरोधतः । न भावो भवतीत्युक्तमभावो भवतीत्यपि ॥ २७० ॥ 'एतेने 'त्यादि, 'एतेन' अनन्तरोदितेन प्रसङ्गदोषेण एत् प्रतिक्षिप्तं व्युदस्तं यदुक्तं 'न्यायमानिना' धर्मकीर्त्तिना, यदुक्तं तदाह-न 'तत्र' वस्तुनि क्षणादूर्द्ध किञ्चिद्भवति वस्तुशब्दवाच्यं, किन्तु न भवत्येव केवलं तदेव न भवति, अन्यथा तन्नाशायोगात् ॥ २६९ ॥ न चास्याभवने तत्त्वान्यत्वकल्पनं युक्तमित्याह - 'भावे ह्येष विकल्पः स्यात्,' 'भावे' वस्तुनो भवन एव 'एष विकल्पः स्यात्' तत्त्वान्यत्वविकल्पः, किं कारणं ? - 'विधेर्व (घे व ) स्त्वनुरोधतः' विषेवस्तुनो विधाने 'वस्त्वनुरोधतः' वस्त्वनुरोधात् अवस्तुनि सर्वथाऽप्रवृत्तिः, यदि निःस्वभावस्य नास्ति व्यापारसमावेशः कथमिदानीं भवत्यमानः शशविषाणमित्यादिव्यवहारः ?, अत्रोत्तरं न भावो भवतीत्युक्तं, भावप्रतिषेधमात्रमेवाभावो भवति इत्यपि, न तु तुच्छस्य भवनं नाम, न तत्त्वाभावो भवतीति किमुक्तं भवति ? - भावो न भवति ॥ २७० ॥ पर एव प्रसङ्गदोषं परिहरन्नाह - असतस्तुच्छताया असिद्धिः ॥ ३८ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy