SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ तस्यां च नागृहीतायां तत्तथेति विनिश्चयः । नहीन्द्रियमतीतादिग्राहकं सद्भिरिष्यते ॥ २६४ ॥ अन्तेऽपि दर्शनं नास्य, कपालादिगतेः क्वचित् । न तदेव घटाभावो भावत्वेन प्रतीतितः ॥ २६५ ॥ न तद्वतेर्गतिस्तस्य, प्रतिबन्धविवेकतः । तस्यैवाभवनत्वे तु भावाविच्छेदतोऽन्वयः ॥ २६६ ॥ तस्मादवश्यमेष्टव्यं तदूर्द्धं तुच्छमेव तत् । ज्ञेयं संज्ञायते ह्येतदपरेणापि युक्तिमत् ॥ २६७ ॥ नोत्पत्त्यादेस्तयोरैक्यं, तुच्छेतर विशेषतः । निवृत्तिभेदतश्चैव, बुद्धिभेदाच्च भाव्यताम् ॥ २६८ ॥ 'नाभाव' इत्यादि, अभावः तुच्छः भावतां याति, अतुच्छतां प्रतिपद्यत इत्यर्थः कुतः ? इत्याह- शशशृङ्गे अभावे 'तथाऽगते:' भावत्वेनागतेः, तथा भावः अतुच्छः 'नाभावमेति' न तुच्छतां यातीह, कुतः ? इत्याह- 'तदुत्पत्त्यादिदोषतः' अभावोत्पत्त्यादिदोषात् ॥ २४८ ॥ कथं दोषः ? इत्याह- 'सतोऽसत्त्वे' इत्यादि, 'सतः' भावस्य 'असत्त्वे' अभावे सति, किमित्याह - 'तदुत्पादः' असत्त्वोत्पादः, कादाचित्कत्वात्, 'ततः' उत्पादात् नाशोऽपि 'तस्य' असत्त्वस्य, कृतकत्वात्, 'यत्' यस्मादेवं 'तत्' तस्मान्नष्टस्य ते सतः पुनर्भावः, तदसत्त्वनाशात् सदा नाशे विवक्षिते सतः 'तत्स्थितिः' न विवक्षितसतः स्थितिः, सदा तन्नाशोपपत्तेरिति ॥ २४९ ॥ पराभिप्रायमाह-'स क्षणस्थिती' त्यादिना - 'सः' नाशः क्षणस्थितिधर्मा चेत्, भाव एव तद्विशेषणात्, अत्राह - द्वितीयादिक्षणास्थितौ सत्यां युज्यते ह्येतदपि - क्षणस्थितिधर्मकत्वमस्य, तथा च एवं च सति 'उक्तानतिक्रमः' उक्तदोषापत्तिरेव ॥ २५० ॥ एतदेव भावयति - 'क्षणे
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy