________________
शास्त्र०
हारि० १ चार्वाक -
स्तबकः
॥ ३५ ॥
कादाचित्कमदो यस्माद, उत्पादायस्य तद् ध्रुवम् । तुच्छत्वान्नेत्य तुच्छस्याप्यतुच्छत्वात्कथं नु य (त) त्१२५३ तदा भूतेरियं तुल्या, तन्निवृत्तेर्न, तस्य किम् ? । तुच्छताप्तेर्न भावोऽस्तु, नासत्सत्, सदसत् कथम् ? २५४ स्वहेतोरेव तज्जातं, तत्स्वभावं यतो ननु । तदनन्तरभावित्वादितरत्राप्यदः समम् ॥ २५५ ॥ नाहेतोरस्य भवनं, न तुच्छे तत्स्वभावता । ततः कथं नु तद्भाव, इति युक्त्या कथं समम् ? ॥ २५६ ॥ स एव भावस्तद्धेतुस्तस्यैव हि तदाऽस्थितेः । स्वनिवृत्तिस्वभावोऽस्य, भावस्यैव ततो न किम् ? ॥ २५७ ॥ ज्ञेयत्ववत्स्वभावोऽपि न चायुक्तोऽस्य तद्विधः । तदभावे न तज्ज्ञानं, तन्निवृत्तेर्गतिः कथम् ? ॥ २५८ ॥ तत् तद्विधस्वभावं यत्, प्रत्यक्षेण तथैव हि । गृह्यते तद्गतिस्तेन, नैतत्क्वचिदनिश्चयात् ॥ २५९ ॥ समारोपाद सौ नेति, गृहीतं तत्त्वतस्तु तत् । यथा भावग्रहात्तस्यातिप्रसङ्गाददोऽप्यसत् ॥ २६० ॥ गृहीतं सर्वमेतेन, तत्त्वतो निश्चयः पुनः । मितग्रहसमारोपादिति तत्त्वव्यवस्थितेः ॥ २६९ ॥ एकत्र निश्चयोऽन्यत्र, निरंशानुभवादपि । न तथा पाटवाभावादित्यपूर्वमिदं तमः ॥ २६२ ॥ स्वभावक्षणतो ह्यूर्द्ध, तुच्छता तन्निवृत्तितः । नासावेकक्षणग्राहिज्ञानात्सम्यग् विभाव्यते ॥ २६३ ॥
क्षणिकपक्षखण्डनं
॥ ३५ ॥