SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ XHIMISHASHI HISOSSAURASHI तस्य' आत्मोपात्तख शुभादेः 'उपभोगस्तु' अनुभवस्तु दूरोत्सारित एव हि, सुतरां न युज्यत इत्यर्थः, किमित्याहशीलानुष्ठानहेतुर्यः क्षणः स नश्यति निरन्वयस्तदैव यत्' यस्मात्॥२४४॥ पराभिप्रायमाह-सन्ताने त्यादिना, 'सन्तानापेक्षया भूतभवद्भविष्यत्क्षणप्रवाहापेक्षया 'अस्माकं' सौगतानां व्यवहारोऽखिलो मतः, ऐहिक आमुष्मिकश्च, सच सन्तान एक एव, न नाना, तस्मिंश्चैवंभूते सति कस्मान्न युज्यते स्मृत्यादि?, युज्यत एवेत्यभिप्रायः॥ २४५ ॥ आमुष्मिकमधिकृत्याह-'यस्मिन्नित्यादि, यस्मिन्नेव तु सन्ताने-उक्तलक्षणे आहिता कर्मवासना-शुभाशुभा फलं 'तत्रैव' सन्ताने, नान्यस्मिन् , युज्यते, कर्पासे रक्तता यथा, लाक्षारसजेति ॥ २४६ ॥ अत्रोत्तरम् -'एतदपी'त्यादि, एतदप्युक्तिमात्रं 'यत्' यस्मात् न हेतुफलभावतः सकाशात् सन्तानोऽन्यः, किन्तु हेतुफलभावः, स चायुक्त एव, हेतुफलभावः, कस्य ? इत्याह-(अ) सत्कार्यवादिन इति ॥ २४७ ॥ एतदेव प्रकटयन्नाह नाभावो भावतां याति, शशशृङ्गे तथाऽगतेः । भावो नाभावमेतीह, तदुत्पत्त्यादिदोषतः ॥ २४८ ॥ है सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत्। तन्नष्टस्य पुनर्भावः, सदा नाशे न तत्स्थितिः ॥ २४९॥ स क्षणस्थितिधर्मा चेत् , द्वितीयादिक्षणास्थितौ। युज्यते ह्येतदप्यस्य, तथा चोक्तानतिक्रमः॥२५०॥ क्षणस्थितौ तदैवास्य, नास्थितियुक्त्यसङ्गतेः।न पश्चादपि सा नेति, सतोऽसत्त्वं व्यवस्थितम् ॥२५१॥ न तद्भवति चेत्, किं न सदाऽसत्त्वं?, तदेव यत् । न भवत्येतदेवास्य, भवनं सूरयो विदुः ॥ २५२ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy