SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० १ चार्वाक स्तबकः ॥ ३४ ॥ सोऽन्तेवासी गुरुः सोऽयं, प्रत्यभिज्ञाऽप्यसङ्गता । दृष्टकौतुकमुद्वेगः, प्रवृत्तिः प्राप्तिरेव च ॥ २४३ ॥ स्वकृतस्योपभोगस्तु, दूरोत्सारित एव हि । शीलानुष्ठानहेतुर्यः, स नश्यति तदैव यत् ॥ २४४ ॥ सन्तानापेक्षयाऽस्माकं, व्यवहारोऽखिलो मतः । स चैक एव तस्मिँश्च सति कस्मान्न युज्यते ? ॥ २४५ ॥ यस्मिन्नेव तु सन्ताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कर्पासे रक्तता यथा ॥ २४६ ॥ एतदप्युक्तिमात्रं यन्न हेतुफलभावतः । सन्तानोऽन्यः स चायुक्त, एवासत्कार्यवादिनः ॥ २४७ ॥ 'अत्रापी' त्यादि, 'अत्रापि' अनन्तरोदितमतद्वये अभिदधति 'अन्ये' जैनादय: - 'स्मरणादेः' स्मरणप्रत्यभिज्ञानादेरसम्भवात्कारणात् बाह्यार्थवेदनाञ्चैव तद्ब्रहणपरिणामवता विज्ञानेन सर्वमेतत्- क्षणिकत्वादिसाधनं परोक्तम् 'अपार्थकं' निरर्थकमित्यर्थः ॥ २४१ ॥ स्मरणाद्यसम्भवमाह - 'अनुभूते' त्यादिना - 'अनुभूतार्थविषयम्' अनुभूतार्थगोचरं स्मरणं 'लौकिकं' आगोपादिसिद्धं 'यतः' यस्मात् कालान्तरे आगामिनि, तथा 'अनित्ये' निरन्वयनश्वरेऽनुभवितरि 'मुख्यं' निरुपचरितम् 'एतत्' स्मरणं 'न युज्यते' न घटत इति ॥ २४२ ॥ प्रत्यभिज्ञाऽपि न युज्यत इत्याह- 'सोडन्तेवासी'त्यादि, 'सोऽन्तेवासी' सोऽयं शिष्यः, गुरुः सोऽयं, प्रत्यभिज्ञाप्येवं या सा असङ्गता, तथा 'दृष्टकौतुकं' लोकसिद्धम्, उद्वेगस्तदप्राप्तौ प्रवृत्तिस्तदर्थप्राप्तिरेव चानिष्टस्यासङ्गतेति ॥ २४३ ॥ तथा-'खकृतस्ये' त्यादि, 'खकृ क्षणिकवादे ज्ञानमात्र वादे च पूर्वोत्तरपक्षौ ॥ ३४ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy