________________
मन्यन्तेऽन्ये जगत्सर्वं, क्लेशकर्मनिबन्धनम् । क्षणक्षयि महाप्राज्ञा, ज्ञानमात्रं तथाऽपरे ॥ २३८ ॥ त आहुः क्षणिकं सर्व, नाशहेतोरयोगतः । अर्थक्रियाऽसमर्थत्वात्परिणामात् क्षयेक्षणात् ॥ २३९ ॥ ज्ञानमात्रं च यलोके, ज्ञानमेवानुभूयते । नार्थस्तद्व्यतिरेकेण ततोऽसौ नैव विद्यते ॥ २४० ॥
'मन्यन्ते' इत्यादि, मन्यन्ते 'अन्ये' सौत्रान्तिकाः सौगताः 'जगत्सर्व' चराचरं 'क्लेशकर्मनिबन्धनं' रागादिकर्म'निमित्तं, तथा 'क्षणक्षयि' प्रतिक्षणनश्वरं, महाप्राज्ञाः - तेभ्योऽपि सूक्ष्मबुद्धयः ज्ञानमात्रं तथा 'अपरे' योगाचाराः सौगता एव मन्यन्ते ॥ २३८ ॥ सौत्रान्तिकमतमुपन्यस्यन्नाह - 'त आहु'रित्यादि, 'ते' सौत्रान्तिका आहुः-यदुत क्षणिकं सर्व, कुतः ? इत्याह- नाशहेतोरयोगतः, अयोगश्च नश्वरेतरविकल्पद्वारेण ज्ञेयः, तथा ( अर्थ ) क्रियाऽसमर्थत्वात्, नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्, तथा 'परिणामात्' प्रतिक्षणमतादवस्थ्यात्, 'क्षयेक्षणात् ' अन्ते क्षय| दर्शनादिति ॥ २३९ ॥ योगाचारमताभिधित्सयाऽऽह - 'ज्ञान' मित्यादि, ज्ञानमात्रं च सर्व, कथं ? - 'यद्' यस्माल्लोके ज्ञानमेव 'अनुभूयते' चेतनत्वेन संवेद्यते, नार्थस्तद्व्यतिरेकेणानुभूयते, जडत्वाभ्युपगमात् यत एवं ततोऽसौ नैव विद्यतेऽर्थः, अननुभूयमानत्वादिति ॥ २४० ॥ वार्त्तान्तरमाह -
I
अत्राप्यभिदधत्यन्ये, स्मरणादेरसम्भवात् । बाह्यार्थवेदनाञ्चैव सर्वमेतद्पार्थकम् ॥ २४९ ॥ अनुभूतार्थविषयं स्मरणं लौकिकं यतः । कालान्तरे तथाऽनित्ये, मुख्यमेतन्न युज्यते ॥ २४२ ॥