________________
9GAGALOGAS
मोक्षः प्रत्ययोगो यत् 'प्रकृतिवियोगो मोक्ष' इति वचनादतोऽस्याः-प्रकृतेः स कथं भवेत् मोक्षः , 'खरूपविगमापत्तेः' प्रकृतिस्वरूपनिवृत्तिप्रसङ्गात् , तथा 'तन्त्रविरोधतः स्वसिद्धान्तप्रकोपात् ॥२२९॥ एतदेवोपदर्शयन्नाह–'पञ्चविंशती'त्यादि, 'पञ्चविंशतितत्त्वज्ञः' प्रकृतिमहदादिज्ञाता यत्र तत्राश्रमे रतः, परिव्राजकादौ, जटी मुण्डी शिखी वापि मुच्यते, बाह्यलिङ्गमत्राकारणं, नात्र संशयः, एवमेवैतदित्यर्थः॥२३०॥ एवं 'पुरुषस्येत्यादिना मुक्तिरिति, तत्रै(वै)व पूर्वाचायश्चिरन्तनैः, इत्थं न घटते चेयं, युक्तिविरोधादिति सर्वमयुक्तिमत् ॥ २३१॥ वार्त्तान्तरमाह
अत्रापि पुरुषस्यान्ये, मुक्तिमिच्छन्ति वादिनः । प्रकृतिं चापि सन्यायात्कर्मप्रकृतिमेव हि ॥ २३२ ॥ |तस्याश्चानेकरूपत्वात्परिणामत्वयोगतः । आत्मनो बन्धनत्वाच्च, नोक्तदोषसमुद्भवः ॥ २३३ ॥
'अत्रापी'त्यादि, अत्रापि वादे पुरुषस्यान्ये मुक्तिमिच्छन्ति 'वादिनः' जैनाः, प्रकृति चापि 'सच्यायात्' सन्यायेन है कर्मप्रकृतिमेव हीच्छन्ति ॥ २३२ ॥ अत्र दोषाभावमाह,-'तस्याश्चेत्यादिना, 'तस्याश्च' कर्मप्रकृतेः अनेकरूपत्वात् ,
चित्रत्वादित्यर्थः, 'परिणामित्वयोगतः' परिणामित्वोपपत्तेः आत्मनो बन्धनत्वाच, भेदे सति तत्स्वभावत्वेन 'नोक्तदोषसमुद्भवः' न परपक्षोक्तदोषापत्तिरिति ॥ २३३ ॥ परमताभिधित्सयाऽऽहनामूर्त मूर्ततां याति, मूर्तं न यात्यमूर्त्तताम् । यतो बन्धाद्यतो न्यायादात्मनोऽसङ्गतं तया॥२३४॥ देहस्पर्शादिसंवित्त्या, न यात्येवेत्ययुक्तिमत् । अन्योऽन्यव्याप्तिजा चेयमिति बन्धादि सङ्गतम् ॥२३५॥