SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ **SASSICS*06 व्यादिपारिणामैकहेतुकं, किं तर्हि ?, कर्तृहेतुकमपि ॥ २१८ ॥ अत्रैवाक्षेपपरिहाराभिधित्सयाऽऽह-'तत्रापी'त्यादि. 'तत्रापि' घटादौ देहः कर्त्ता चेत्, नात्मा, अत्रोत्तरं-नैवासौ-देहः आत्मनः पृथक्, सर्वगतत्वादात्मनोऽसर्वगतत्वाच्च देहस्य पृथगेवेति चेत्, अत्रोत्तरं-भोग आत्मनो युज्यते कथं?, सर्वथा देहभेदेऽस्य मुक्तकल्पत्वादिति ॥ २१९ ॥ पराभिप्रायमाह-'देह' इत्यादिना, देहेन भोगो देहभोगस्तेन नैव 'अस्य' आत्मनः 'भावतः' परमार्थतः भोग इष्यते, प्रतिबिम्बोदयेनेष्यते यथोक्तं पूर्वसूरिभिः-विन्ध्यवास्यादिभिरिति ॥२२०॥ यदुक्तं तदाह-पुरुषः' इत्यादि, 'पुरुषः' आत्मा 'अविकृतात्मैव' नित्य एव, 'स्वनिर्भासं' स्वाकारम् 'अचेतनं' चैतन्यशून्यं 'मनः करोति' अन्तःकरणं करोति 'सान्निध्यात्' संनिधानमात्रेण, निदर्शनमाह-'उपाधिः' पद्मरागादिः 'स्फटिकम्' उपलविशेष यथा स्वनिर्भासं करोति तद्वदिति ॥ २२१॥ यदि नामैवं ततः किमित्याह-विभक्ते'त्यादि, विभक्ता चात्मन ईदृक्परिणतिश्चेति विग्रहः तस्यां | 'बुद्धौ' अन्तःकरणलक्षणायां भोगः 'अस्य' पुरुषस्य कथ्यते आसुरिप्रभृतिभिः, किंवदित्याह-'प्रतिबिम्बोदयः' प्रतिबिम्बपरिणामः 'खच्छे' निर्मले चन्द्रमसः वास्तवस्य 'अम्भसि' उदके तद्वदिति ॥ २२२ ॥ उत्तरमाह-प्रती'त्यादि, प्रतिबिम्बोदयोऽपि 'अस्य' आत्मनः नामूर्त्तत्वेन हेतुना युज्यते, मुक्तैरतिप्रसङ्गाच्च, तेषां प्रतिबिम्बाभावात् , न वै भोगः कदाचन, सर्वदैकस्वभावत्वात् ॥ २२३ ॥ दोषान्तराभिघित्सयाऽऽह-नचेत्यादि, न च नित्यत्वेन पूर्वस्वभावत्वात्कारणात् 'सः' प्रतिबिम्बोदयनिमित्तस्वभावो मुक्तानामसङ्गत एव, नित्यत्वक्षतेः, एवमपि न वै भोगः कदाचन, किन्तु सर्वदेव, स्वभावान्तरभावे च मुक्तानासिष्यमाणे परिणामोऽनिवारितः, अमुक्तस्वभावत्यागतः स्वभावान्तराङ्गीक
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy