SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ "शास्त्र० हारि० १ चार्वाक स्तबकः ॥ ३१ ॥ || देहात्पृथक्त्व एवास्य, न च हिंसादयः क्वचित् । तदभावेऽनिमित्तत्वात् कथं बन्धः शुभाशुभः ? ॥२२५॥ बन्धादृते न संसारो, मुक्तिर्वाऽस्योपपद्यते । यमादि तदभावे च सर्वमेव ह्यपार्थकम् ॥ २२६ ॥ 'अन्येतु' सौगतादयो ब्रुवते ह्येतत् - अनन्तरोदितं प्रक्रियामात्रवर्णनं, न तात्त्विकमेव, यस्मादेवमविचार्यैव तत्तस्माद् युक्तया श्रद्धया गम्यते परं नान्य उपाय इति ॥ २१४ ॥ एतदेवाह - 'युक्तया त्वि' त्यादिना - युक्तया तु बाध्यते, कथमित्याह यस्मात्प्रधानं नित्यमिष्यते तैर्वादिभिः, तथात्वाप्रच्युतौ च अस्य - प्रधानस्य महदादि कथं भवेत् ?, न युज्यत इत्यर्थः ॥ २१५ ॥ पराभिप्रायमाह - 'तस्यैवे' त्यादिना - 'तस्यैव' प्रधानस्य 'तत्खभावत्वात्' सन्निधानमात्रेण महदादिजननस्वभावत्वादिति, एवं चेन्महदादि भवेत्तत्राह - किं न सर्वदा भवति ?, तत्स्वभावत्वाविशेषात्, अत एव तस्यैव तत्स्वभावत्वात्- कदाचिदेव सन्निधानमात्रेण महदादिजननस्वभावत्वादिति चेदाह - 'तस्य' प्रधानस्य ' तथात्वे' स्वरूपनियतत्वेऽविकृतत्वे सति ननु 'तत्' महदादि 'कुतः' कस्मादुपादानात् ?, नास्ति उपादानमित्यर्थः ॥ २१६ ॥ उपचयाभिधित्सयाऽऽह - न अनुपादानं तथाभाविकारणविकलम् 'अन्यस्य' सर्वथा तथाभाविव्यतिरिक्तस्य प्रधानस्य भावे सति 'अन्यत्' एकान्ताविद्यमानं महदादि 'जातुचित्' कदाचित् भवेत्, सर्वथाऽसतः सत्ताऽयोगात्, तदुपादानतायां च महदादेरभ्युपगम्यमानायां न 'तस्य' प्रधानस्य एकान्तनित्यता, तस्यैव तथाभवनादिति ॥ २१७ ॥ स्थूलमपि सकर्तृक|मिति प्रतिपादयन्नाह - घटाद्यपि कार्यं कुलाला दिसापेक्षं सत् दृश्यते 'भवत्' उत्पद्यमानं, यतश्चैवमतो न घटादि पृथि प्रकृतिवादे सांख्यवार्त्ता ॥ ३१ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy