________________
SALAMAUSAMSUNG
अन्ये तु ब्रुवते ह्येतत् , प्रक्रियामात्रवर्णनम् । अविचार्येव तद्युक्त्या, श्रद्धया गम्यते परम् ॥ २१४ ॥ युक्त्या तु बाध्यते यस्मात्, प्रधानं नित्यमिष्यते। तथात्वाप्रच्युतौ चास्य, महदादि कथं भवेत् ? ॥२१५॥ तस्यैव तत्स्वभावत्वादिति चेकिं न सर्वदा? । अत एवेति चेत् तस्य, तथात्वे ननु तत्कुतः? ॥२१६॥
नानुपादानमन्यस्य, भावेऽन्यज्जातुचिद्भवेत् । तदुपादानतायां च, न तस्यैकान्तनित्यता ॥ २१७ ॥ है घटायपि कुलालादिसापेक्षं दृश्यते भवत् । अतो न तत्पृथिव्यादिपरिणामैकहेतुकम् ॥ २१८ ॥
तत्रापि देहः कर्त्ता चेन्नैवासावात्मनः पृथक् । पृथगेवेति चेद्भोग, आत्मनो युज्यते कथम् ? ॥ २१९ ॥ देहभोगेन नैवास्य, भावतो भोग इष्यते । प्रतिबिम्बोदयात्किन्तु, यथोक्तं पूर्वसूरिभिः ॥ २२० ॥ पुरुषोऽविकृतात्मैव, खनि समचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥ २२१ ॥ विभक्तेहपरिणतो, बुद्धौ भोगोऽस्य कथ्यते।प्रतिबिम्बोदयः स्वच्छे, यथा चन्द्रमसोऽम्भसि ॥२२२॥| प्रतिबिम्बोदयोऽप्यस्य, नामूर्त्तत्वेन युज्यते । मुक्तैरतिप्रसङ्गाच्च, न वै भोगः कदाचन ॥ २२३ ॥ न च पूर्वखभावत्वात् , स मुक्तानामसङ्गतः। खभावान्तरभावे च, परिणामोऽनिवारितः ॥ २२४ ॥
MUSALMAGARCACCRACK
शा. स.