SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० १ चार्वाक स्तबकः ॥ २९ ॥ कर्मादेस्तत्स्वभावत्वे, न किञ्चिद्दाध्यते विभोः । विभोस्तु तत्स्वभावत्वे, कृतकृत्यत्वबाधनम् ॥ २०२ ॥ 'कर्मादे'रित्यादि, 'कर्मादेः' कर्मादिसर्गयोः 'तत्स्वभावत्वे' ईशानपेक्षफलदानस्वभावत्वे न क्रिशिद्वाभ्यते "विभो।' ईश्वरस्य, किन्त्वनुपकारिणः कर्तृस्वमपि न सिध्यतीत्यभिप्रायः, विभोस्तु 'तत्स्वभावत्वे' कर्मफलदाननादिसर्गकरणस्वभावत्वे कृतकृत्यत्वबाधनं, तत्सम्पादनेनानिष्ठितार्थत्वादिति ॥ २०२ ॥ एवं प्रत्ययादौ एव काश ( कर्मवादोऽनवकाश ) इति गम्यमान इत्याह ( इदमाह ) -- समश्चेश्वरकर्तृत्वषादोऽयं युज्यते परम् । सम्यस्यायाविरोधेन यथाऽऽडुः शुद्धबुद्धयः ॥ २०३ ॥ 'ततश्चेत्यादि, सतश्चेम्बरकर्तृत्वयादोऽयं लोकप्रसिद्धो युज्यते परं सम्यन्यायाविरोधेन, कथम् ? इत्याह-यथाऽऽहु । शुद्धबुद्धयः- साधव इति ॥ २०३ ॥ एतदेव दर्शयति- 'ईश्वर' इत्यादिना - ईश्वरः परमात्मैव, तदुक्तव्रतसेवनात् । यतो मुक्तिस्ततस्तस्याः कर्त्ता स्याद्गुणभावतः ॥ २०४ ॥ ईश्वरः परमात्मैव, यः कश्चित्सर्वज्ञः, 'तदुक्तव्रतसेवनात्' अहिंसादिपालनादित्यर्थः, यतो मुक्तिर्भवति ततस्तस्याः- मुक्तेः कर्त्ता स्यात् ( गुणभावतः - निमत्तत्वेन कर्त्तृत्वोपचारात् ॥ २०४ ॥ तदनासेवनादेव, यत्संसारोऽपि तत्त्वतः । तेन तस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥ २०५ ॥ 'तदे' त्यादि, 'तदनासेवनादेव' तदुक्तव्रता पालनादेष यत् संसारोऽपि तत्त्वतः जीवस्य 'तेन' हेतुना 'तस्यापि ' संसारस्यापि कर्तृत्वं कल्प्यमानं न दुष्यति ॥२०५॥ कर्त्तृत्वं कल्प्यमानमपायदर्शनेन न दुष्यतीति कल्पनागुणमाह- 'कर्त्ताय' मित्यादिना - ईश्वरवादखण्डनम् ॥ २९ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy