________________
'नरकादी'त्यादि, 'नरकादिफले' प्राणातिपातादौ काँश्चित् काँश्चित्स्वर्गादिसाधने-दानादौ कर्मणि प्रेरयति 'आशु' शीघ्र 'सः' ईश्वरः 'जन्तून्' प्राणिनः केन हेतुनेति ॥ १९८ ॥ पराभिप्रायमाशङ्कय परिहरन्नाह
खयमेव प्रवर्तन्ते, सत्त्वाश्चेच्चित्रकर्मणि । निरर्थकमिहेशस्य, कर्तृत्वं गीयते कथम् ? ॥ १९९ ॥ __'स्वयमेवे'त्यादि, 'स्वयमेव' आत्मनैव प्रवर्तन्ते सत्त्वाश्चेत् 'चित्रकर्मणि' प्राणातिपातादौ 'निरर्थक' निष्प्रयोजनमिहेशस्य कर्तृत्वं 'गीयते' शब्दयते कथ? मिति ॥ १९९॥ पराभिप्रायमाह-'फलं दे'त्यादिनाफलं ददाति चेत्सर्वं, तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात् , सफले भक्तिमात्रता ॥ २०० ॥ ___ फलं ददाति चेत्सर्व तत्-कर्म तेनेह प्रचोदितमीश्वरेण, एतदप्यसद्, विकल्पायोगात् , तत्त्वे(त् ते)न सफलं वा कृतं तस्यादफलं वा?, किं चात इत्याह-'अफले पूर्वदोषः स्यात्' चित्रफलदापनेऽवीतरागता, 'सफले भक्तिमात्रता' ईश्वरे,
हरीतकीविरेकन्यायात् ॥ २०॥ आदिसर्गस्तत्कृत इति निराकुर्वन्नाह
आदिसर्गेऽपि नो हेतुः, कृतकृत्यस्य विद्यते । प्रतिज्ञातविरोधित्वात्स्वभावोऽप्यप्रमाणकः ॥ २०१॥ ___ 'आदी'त्यादि, आदिसर्गेऽपि कर्त्तव्ये नो हेतुः कश्चित् 'कृतकृत्यस्य' ईशस्य विद्यते, प्रतिज्ञातविरोधित्वात् , कृतकृत्यस्य प्रयोजनाभावात् एवंभूत एवास्य स्वभाव इति स्वभावोऽप्यप्रमाणक एव, किञ्च-(नच)कर्मसर्गयोरेवैष स्वभावो यदुतेश्वरप्रेरितमेव कर्म फलति सर्गोऽपि भवतीति ॥२०१॥ किश्चातः