________________
यतकाले तुम्येऽपि सति 'सर्वत्रैव' कर्षकादौ न तत्फलं तुल्यमतो हेखन्तरापेक्षं, म सावन्मात्रजं, 'विज्ञेयम्' एवं ज्ञातव्यं 'लत्' फलं 'विचक्षणैः' पण्डितैरिति ॥ १९० ॥ उपसंहारमाह
अतः कालादयः सर्वे, समुदायेन कारणम् । गर्भादेः कार्यजातस्य, विज्ञेया म्यायवादिभिः ॥ १९९ ॥
'अतः' इत्यादि, अतः कालादयः 'सर्वे' अनन्तरोक्ताः समुदायेन कारणं, न प्रत्येकं, कस्य? इत्याह-गर्भादेः कर्म्मजातस्य- फलजातेः विज्ञेया न्यायवादिभिरिति ॥ १९९ ॥ एतदेव द्रढयन्नाह -
न चैकैकत एवेह क्वचित्किञ्चिदपीक्ष्यते । तस्मात्सर्वस्य कार्यस्य, सामग्री जनिका मता ॥ १९२ ॥
'नचे' त्यादि, न चैकैकत एवेह - कालादेः क्वचित्किञ्चिदपीक्ष्यते, कार्यजातं यस्मादेवं तस्मात्सर्वस्य कार्यस्य नियम एवायं यदुत - सामग्री जनिका मतेति ॥ ९९२ ॥ अत्रैव मतभेदमाह - 'स्वभाव' इत्यादिना - स्वभावो नियतिश्चैव कर्मणोऽन्ये प्रचक्षते । धर्मावन्ये तु सर्वस्य, सामान्येनैव वस्तुनः ॥ १९३ ॥
स्वभावो नियतिश्चैवेत्येतद्वयमपि कर्म्मणः 'अन्ये' आचार्याः प्रचक्षते धम्म, अन्ये तु सर्वस्व सामान्येनैव वस्तुनः, | एतौ धर्माविति ॥ १९३ ॥ वार्त्तान्तरमभिधित्सुराद्द ---
| ईश्वरः प्रेरकश्वेम, कर्ता कैश्विदिष्यते । अचिन्त्यचिच्छक्तियुक्तोऽनादिशुद्धश्च सूरिभिः ॥ ९९४ ॥