________________
शास्त्र ० हारि० १ चार्वाक
स्तबकः
॥ २६ ॥
न च ' तत्कर्मवैधुर्ये' भोक्तृकर्मवैगुण्य इत्यर्थः, मुद्गपतिरपीष्यते, स्थाल्यादिभङ्गभावेन 'यत्' यस्मात् कचिनोपजायते ॥ १७९ ॥ विपक्षे बाधामाह
चित्रं भोग्यं तथा चित्रात्कर्म्मणोऽहेतुताऽन्यथा । तस्य यस्माद्विचित्रत्वं, नियत्यादेर्न युज्यते ॥ १८० ॥ 'चित्र'मित्यादि, चित्रं भोग्यं नानाप्रकारं ' तथा ' तेन प्रकारेण (चित्रात् कर्मणः - अदृष्टात्, अन्यथाऽहेतुता, तस्य भोग्यस्य यस्माद् एकरूपत्वात् विचित्रत्वं ) नियत्यादेः सकाशान्न युज्यते ॥ १८० ॥ एतदेव भावयन्नाह - नियतेर्नियतात्मत्वान्नियतानां समानता । तथाऽनियतभावे च बलात्स्यात्तद्विचित्रता ॥ १८१ ॥
‘नियते’रित्यादि, ‘नियतेः’ उक्तलक्षणायाः 'नियतात्मत्वात्' एकस्वभावत्वात् 'नियतानां' कार्याणां 'समानता' तुल्यता, स्यादिति शेषः, ' तथा ' तेन प्रकारेणासमान कार्यकारणरूपेण 'अनियतभावे 'च' अनवस्थितत्वे च सति नियतेरभ्युपगम्यमाने 'बलात्' सामर्थ्यादेव ' स्यात्तद्विचित्रता' भवेन्नियतिवैचित्र्यं, हेतुभेदमन्तरेण फलभेदा योगादिति ॥ १८१ ॥ अस्वेवमपि न दोष एवेत्यत्राह -
न च तन्मात्रभावादेर्युज्यतेऽस्या विचित्रता । तदन्य ( त्) भेदकं मुक्त्वा, सम्यन्यायाविरोधतः ॥ १८२ ॥
'न चे 'त्यादि, न च 'तन्मात्रभावादेः' नियतिमात्र भावपरिणामाभ्यां सकाशात् 'युज्यते' घटते 'अस्याः' नियतेः विचित्रता ' तदन्यत्' नियतिभिन्नं 'भेदकं' वस्तु 'मुक्त्वा' विहाय सम्यन्यायाविरोधतः, नावीजं किञ्चिद्भवतीति सत्या सा विरो| धितेत्यर्थः ॥ १८२ ॥ एतदेव प्रकटयन्नाह -
कर्मवादः
॥ २६ ॥