SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अन्यथाऽनियतत्वेन, सर्वाभाव: प्रसज्यते । अन्योऽन्यात्मकतापत्तेः, क्रियावैफल्यमेव च ॥ १७६॥ 'अन्यथे'त्यादि, अन्यथा-यद्येवं नेष्यते ततोऽनियतत्वेन हेतुना सर्वाभावः प्रसज्यते, एते हि तत ष, तच्च तदम्यथा भवतीति प्राप्तं, न चैतदेवमिति, तदन्यपदभीष्टस्याप्यभाव इति सर्वाभावः, तथाऽन्योन्यात्मकतापत्तेः, अनियतहेतुत्वेन घटपटादीनां, क्रियावैफल्यमेव च प्रसज्यते, घटार्थिनो मृद उपादानेऽपि सदभिमतत्वेन तदसिद्धेरिति, तथा नियतेन तत्त्वान्तरेण सर्वान्वयव्यतिरेकसिद्धेरिति भावनीयम् ॥ १७६ ॥ कर्मवादिमत आह8/न भोक्तृव्यतिरेकेण, भाग्यं जगति विद्यते । न चाकृतस्य भोक्ता स्यान्मुक्तानां भोगभावतः॥१७७॥ | 'न भोक्तु' इत्यादि, 'न भोत्तुर्व्यतिरेकेण' न भोक्तारमन्तरेण भाग्य जगति विद्यते, सम्बन्धिशब्दत्वेन भोग्यत्वानुपपत्तेः, न चाकृतस्य -स्वयमनुपात्तस्य 'भोक्ता स्यात्' भोक्ता भवेत् , कुतः? इत्याह-'मुक्तानां' निष्ठितार्थानां 'भोगभावतः' भोगप्रसङ्गात् ॥ १७७ ॥ यदि नामैवं ततः किम् ? इत्याहभोग्यं च विश्वं सत्त्वानां, विधिना तेन तेन यत्। दृश्यतेऽध्यक्षमेवेदं, तस्मात्तत्कर्मजं हि तत्॥१७॥ | 'भोग्यं चेत्यादि, भोग्यं च 'विश्व' जगत् सत्त्वानां 'विधिना' प्रकारेणं तेन तेन यद् दृश्यते अध्यक्षमेवेदमविप्रतिपत्तिः(तेः), तस्मात्तत्कर्मजमेव तदिति ॥१७८ ॥ एतदेव समर्थयति-'न 'त्यादिनान च तत्कर्मवैधुर्ये, मुद्रपक्तिरपीक्ष्यते । स्थाल्यादिभङ्कभावेन, यत् कचिन्नोपपद्यते ॥ १७९ ॥ MAAAAAAA
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy