SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० १ चार्वाक स्तबकः ॥ २५ ॥ 'अतरस्वभावे' त्यादि, अतत्स्वभावात्कारणात् 'सद्भावे' विवक्षितकार्यभावेऽतिप्रसङ्गो माम दोषः सोऽनिवारितः, एतदेव स्पष्टयति-तुल्ये तत्र - अतत्स्वभावत्वे मृदः कारणात्कुम्भो भवति न पडादीत्येलदयुक्तिमदिति ॥ १७२ ॥ नियतिवादिमताभिधित्सयाऽऽह - नियतेनैव रूपेण, सर्वे भावा भवन्ति यत् । ततो नियतिजा होते, तत्स्वरूपानुवेधतः ॥ १७३ ॥ ‘नियतेनैवे’त्यादि, ‘नियतेनैव रूपेण' अन्यूनानतिरिक्तेन सर्वे 'भावाः' पदार्था भवन्ति 'यत्' यस्मात् तत् तस्मात् 'नियतिजाः' तथाभूततत्त्वान्तरजा एवैते 'तत्स्वरूपानुवेधतः' नियतित्वस्वरूपानुवेधात् ॥ १७३ ॥ एतदेवाभिधित्सुराहयद्यदैव यतो यावत्तत्तदैव ततस्तथा । नियतं जायते न्यायात्, के एतां बाधितुं क्षमः १ ॥ १७४ ॥ 'बधदैवे 'त्यादि, 'यत्' वस्तु 'यदैव' यस्मिन्नेव काले 'यतः' कारणात् 'यावत्' इति यावत्परिमाणे 'तत्' वस्तु 'तदैव' तमिव काले 'ततः' कारणात् 'तथा' तावत्परिमाणं नियतं जायते चैव नियतानि यतः कारणानीत्यभिप्रायः, एवं न्यायात्कः 'एतां' नियतिं बाधितुं क्षमो १, जैव कश्चिदिति ॥ १७४ ॥ नियतेरेष सामर्थ्यमाह 'बचे' त्यादिना - न चर्ते नियतिं लोके, मुद्रपक्तिरपीक्ष्यते । तत्स्वभावादिभावेऽपि नासावनियता यतः ॥ १७५ ॥ 'म बतें' म च विना नियतिमुक्तलक्षणां लोके मुगपत्तिरपीक्ष्यते, 'तत्स्वभावादिभावेऽपि' पक्तिस्वभावादिसन्निधानेsपि नासौ पक्तिरनियता यतः, सदविशेषेऽपि सारूपित्वेन नियतत्वात् ॥ १७५ ॥ विपक्षे दोषमाह -- स्वभाव नियति वादौ ॥ २५ ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy