________________
सद्भावमात्रादेव' दांपत्यसंयोगादिमात्रादेव तदुद्भवात् , गर्भनिवन्धनं च बालादित्वं, तदपि तदैवेत्यनवस्था ॥ १६८॥
स्वभाववादिमताभिधित्सयाऽऽहPन स्वभावातिरेकेण, गर्भबालशुभादिकम् । यत्किञ्चिज्जायते लोके, तदसौ कारणं किल ॥ १६९ ॥
__ 'ने'त्यादि, 'न स्वभावातिरेकेण' न स्वभावमन्तरेण गर्भवालशुभादिक 'यत्' यस्माकिञ्चिजायते . लोके तत् 'असौ' स्वभावः कारणं किलेति ॥ १६९ ॥ एतदेवामिधित्सुराहसर्वभावाः स्वभावेन, स्वस्वभावे तथा तथा। वर्तन्तेऽथ निवर्तन्ते, कामचारपराङ्मुखाः ॥१७॥ ___ 'सर्वे'त्यादि, 'सर्वभावाः' सर्वपदार्थाः 'स्वभावेन' आत्मीयया सत्तया स्वस्वभावे-आत्मीयात्मीये भावे 'तथा ६ तथा' तेन तेन प्रकारेण वर्तन्ते (अथ निवर्तन्ते) स्वभावेनैव, 'कामचारपरामुखाः' अनियतभावनिरपेक्षाः ॥ १७ ॥ स्वभावस्यैव सामर्थ्यमाहन विनेह स्वभावेन, मुद्गपक्तिरपीष्यते । तथाकालादिभावेऽपि, नाश्वमाषस्य सा यतः ॥ १७१॥ | 'न विनेहे'त्यादि, न विना 'इह' लोके 'स्वभावेन' तथायोग्यतालक्षणेन मुद्गपक्तिरपीष्यते, 'तथाकालादिभावेऽपि ४ अभीष्टकालादिसंनिधानेऽपि सति नाश्वमाषकस्य-कङ्कटुकस्य सा-पक्तिर्यत इति ॥ १७१॥ विपक्षे दोषमाह
अतत्स्वभावात्तद्भावेऽतिप्रसङ्गोऽनिवारितः। तुल्ये तत्र मृदः कुम्भो,
शा. स. ५
----
-.
. Tोन पाटीत्ययांतमत ॥१७२ ।।