SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ *CHOSASSASSASSARI अन्येषामपि बुद्ध्यैवं, दृष्टेष्टाभ्यां विरुद्धता । दर्शनीया कुशास्त्राणां, ततश्च स्थितमित्यदः ॥ १६१ ॥ ____ 'अन्येषामपी'त्यादि, 'अन्येषामपि' एवंजातीयानामतिवादराणां 'बुद्ध्यैवम्' आत्मीययैव दृष्टेष्टाभ्यां विरुद्धता 'दर्शनीया' प्रतिपाद्या 'कुशास्त्राणाम्' आजीवकादिसम्बन्धिनां, ततश्च स्थितमित्यदः, यदुत स्वभाव एष इत्यादि पूर्ववत् ॥ १६१॥ आत्मन एव कर्तृत्वमित्याह-'क्लिष्ट'मित्यादिना- . ६ क्लिष्टं हिंसाद्यनुष्ठानं, न यत्तस्यान्यतो मतम् । ततः कर्ता स एव स्यात्, सर्वस्यैव हि कर्मणः ॥१६२॥ | 'क्लिष्टं' रौद्रं हिंसाद्यनुष्ठानं न 'यत्' यस्मात्तस्मात् 'तस्य' आत्मनोऽन्यतः 'मतम्' इष्टं, किन्तु तत एव, यतश्चैवं 'ततः'द तस्मात् कर्ता स एव स्यादात्मा 'सर्वस्यैव हि' हिताहितादेः कर्मण इति ॥ १६२॥ स्वयमेव कर्ता सन् कथमहिते प्रवर्तते? इतिअनादिकर्मयुक्तत्वात्तन्मोहात्संप्रवर्त्तते । अहितेऽप्यात्मनः प्रायो, व्याधिपीडितचित्तवत् ॥ १६३ ॥ _ 'अनादी'त्यादि, अनादिकर्मयुक्तत्वात्कारणान्न(त्तत्) 'मोहात्' कर्ममोहेन संप्रवर्त्तते, व? इत्याह-अहितेऽप्यात्मनः 'प्रायः' बाहुल्येन, निदर्शनमाह-व्याधिपीडितचित्तवदपथ्य इति ॥ १६३ ॥ वार्त्तान्तरमाह-'कालादीना'मित्यादिनाकालादीनां च कर्तृत्वं, मन्यन्तेऽन्ये प्रवादिनः । केवलानां तदन्ये तु, मिथः सामग्र्यपेक्षया॥१६४॥18 | 'कालादीनांच' कालनियतिस्वभावादीनां च कर्तृत्वं मन्यन्तेऽन्ये 'प्रवादिनः' कालादिवादिन एव केवलानां कालादीनां, RASHTRA
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy