SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ शास्त्र हैन हिंस्यादिह भूतानि, हिंसनं दोषकृन्मतम् । दाहवद्वैद्यके स्पष्टमुत्सर्गप्रतिषेधतः ॥ १५८ ॥ वैदिकमतहारि० | 'न हिंस्या'दित्यादि, 'न हिंस्यादिह भूतानि' इत्यत्र इहशब्दोऽन्यस्थाने प्रयुक्तश्छन्दोभङ्गभयाद्, एवं तु द्रष्टव्यः, न निरासः १चार्वाक हिंस्याद्भूतानि 'इह' वेदे हिंसनं 'दोषकृन्मतं' पापकृदिष्टं स्पष्टमिति सम्बन्धः । निदर्शनमाह-'दाहवद्वैद्यके' इति यथा स्तबकः दाहो वैद्यके दुःखादिकरत्वेन दोषकृदिष्टस्तद्वदित्यर्थः। उभयत्र युक्तिमाह-'उत्सर्गप्रतिषेधतः' न दाहः कार्य इति प्रति॥२३॥ षेधवन्न हिंस्याद्भूतानीति सामान्यप्रतिषेधात् ॥ १५८॥ यतश्चैवम् ततो व्याधिनिवृत्त्यर्थ, दाहः कार्यस्तु चोदिते।न ततोऽपि न दोषः स्यात्फलोद्देशेन चोदनात् ॥१५९॥ | 'ततः' इत्यादि, ततः 'व्याधिनिवृत्त्यर्थ' व्याध्युपशमार्थ दाहः कार्यस्तु एवं चोदिते सति न 'ततोऽपि' दाहकरणान्न |'दोषः' दुःखादिकरत्वलक्षणः, किन्तु स्यादेव, कुतः? इत्याह-'फलोदेशेन' व्याधिनिवृत्तिफलोपन्यासेन 'चोदनात्' कारणात् ॥ १५९ ॥ दाष्टोन्तिकयोजनामाह-'एव'मित्यादिनाएवं तत्फलभावेऽपि, चोदनातोऽपि सर्वथा । ध्रुवमौत्सर्गिको दोषो, जायते फलचोदनात् ॥ १६०॥13 | एवं 'तत्फलभावेऽपि' भूत्यादिभावेऽपीति भावः, चोदनातोऽपि सर्वथा ध्रुवमौत्सर्गिको दोषो जायते, पापकृत्त्वं, कुतः? इत्याह-'फलोद्देशेन' भूत्याद्युपन्यासेन चोदनादिति ॥ १६०॥ एवं प्रस्तुतागमचेष्टया दृष्टेष्टविरुद्धतामभिधाया ॥२३॥ तिदिशन्नाह *PASALICIAIS RISUS
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy