SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ CASASUSASIASSUGO 'तद्विपर्ययेत्यादि,'तद्विपर्ययसाध्यत्वे' अहिंसाधुत्कर्षसाध्यत्वे कर्मक्षयस्य, किम् ? इत्याह-परसिद्धान्तसंस्थितिः' अन्याभ्युपगमसिद्धिः, एतदेवाह-कर्मक्षयः ‘सतां' साधूनां यस्माद् अहिंसादिप्रसाधनोऽन्येषां प्राणिनामिति ॥१५४॥ तथातदन्यहेतुसाध्यत्वे, तत्स्वरूपमसंस्थितम् । अहेतुत्वे सदा भावोऽभावो वा स्यात्सदैव हि ॥ १५५॥ | 'तदन्ये'त्यादि, तदन्यहेतुसाध्यत्वे कर्मक्षयस्य 'तत्स्वरूपम्' अन्यहेतस्वरूपम् 'असंस्थितं' सम्यक् न सिद्धम् , उक्त-1 व्यतिरेकेणाभावादित्यभिप्रायः। चतुर्थपक्षमधिकृत्याह-अहेतुत्वे कर्मक्षयस्य सदाभावः, अहेतुत्वाविशेषात् , अभावो वा स्यात्कर्मक्षयस्य सदैव हि, तत एव हेतोरिति ॥ १५५ ॥ तदत्र द्वितीयविकल्प एव न्याय्य इति दर्शयतिमुक्तिः कर्मक्षयादिष्टा, ज्ञानयोगफलं स च । अहिंसादि च तद्धेतुरिति न्यायः सतां मतः॥१५६ ॥ ___ 'मुक्तिरित्यादि, मुक्तिः कर्मक्षयाद् 'इष्टा' अभ्युपगता, ज्ञानयोगफलं च कर्मक्षय इष्टः, अहिंसादि च 'तद्धेतुः ज्ञानयोगहेतुरिति न्यायः सतां 'मतः' इष्टः अविरोधी च ॥ १५६ ॥ वार्तान्तरासारतामाह-एव'मित्यादिनाएवं वेदविहिताऽपि, हिंसाऽपायाय तत्त्वतः। शास्त्रचोदितभावेऽपि, वचनान्तरबाधनात् ॥ १५७॥ ___ एवं यथा संसारमोचकस्य हिंसा तद्वद् वेदविहिताऽपि श्वेतं वायव्यमजमालभेत भूतिकाम' इति चोदिताऽपि हिंसा 'अपायाय' प्रत्यपायार्थमेव 'तत्त्वतः' परमार्थतः'शास्त्रचोदितभावेऽपि शास्त्रचोदितत्वेऽपि सतीत्यर्थः, कुतः? इत्याह'वचनान्तरबाधनात्' स्वशास्त्रप्रसिद्धेनैव वचनान्तरेण विरोधात् ॥ १५७ ॥ एतदेव भावयन्नाह
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy