________________
. शास्त्र० हारि० १ चार्वाक
स्तबकः
॥ २२ ॥
श्चास्ति, यदि नामैवं ततः किमित्याह - ततः 'तस्यापि संसारमोचकस्य एष दोषो - मुक्तेरनित्यत्वलक्षणः अवारितः, तुल्य एवेत्यर्थः ॥ १५० ॥ एतदेव भावयन्नाह -
मुक्तिः कर्मक्षयादेव, जायते नान्यतः क्वचित् । जन्मादिरहिता यत्तत्स एवात्र निरूप्यते ॥ १५१ ॥ 'मुक्ति' रित्यादि, मुक्तिः कर्मक्षयादेव, पुण्यापुण्यक्षयादित्यर्थः, सा जायते न 'अन्यतः' दानादेः क्वचित्, जन्मादिरहिता मुक्तिर्नित्येत्यर्थः, 'यत्' यस्मादेवं 'तत्' तस्मात् 'स एव' कर्मक्षयो निरूप्यत इति ॥ १५१ ॥ निरूपयन्नाह - हिंसायुत्कर्षसाध्यो वा, तद्विपर्ययजोऽपि वा । अन्यहेतुरहेतुर्वा, स वै कर्म्मक्षयो ननु ? ॥ १५२ ॥
'हिंसादी' त्यादि, 'हिंसाद्युत्कर्षसाध्यो वा' हिंसोत्तरदुःखापनयनोत्कर्षसाध्यो वा तद्विपर्ययजोऽपि वा 'अन्यहेतुः' अविवक्षितोऽपरहेतुः 'अहेतुर्वा' निर्हेतुक एव स वै कर्मक्षयो नन्विति विकल्पाः ॥ १५२ ॥ एतेषु दोषानाह| हिंसाद्युत्कर्षसाध्यत्वे, तदभावे न तत्स्थितिः । कर्मक्षयास्थितौ च स्यान्मुक्तानां मुक्तताक्षितिः ॥१५३॥
'हिंसादी' त्यादि, हिंसाद्युत्कर्षसाध्यत्वे कर्मक्षयस्य 'तदभावे' हिंसाद्युत्कर्षाभावे 'न तत्स्थितिः' न कर्मक्षयस्थितिः, एकाधारक्रिया फलत्वात्, यदि नामैवं ततः किम् ? इत्याह- कर्मक्षयाऽस्थितौ च सत्यां स्यान्मुक्तानां मुक्तताक्षितिरिति
॥ १५३ ॥ तथा -
तद्विपर्ययसाध्यत्वे पर सिद्धान्तसंस्थितिः । कर्म्मक्षयः सतां यस्मादहिंसादिप्रसाधनः ॥ १५४ ॥
संसार
मोचकनिरासः
॥ २२ ॥