SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ SUSNE नाप्रवृत्तेरियं हेतुः, कुतश्चिदनिवर्त्तना सर्वत्र भावाविच्छेदादन्यथाऽगम्यसंस्थितिः॥१४८॥ 'यावदिति, यावदेवंविधं परमं न एतत् माध्यस्थ्यं प्रवृत्तिस्तावदेव या क्वचित् पुंसां सा 'अविशेषेण' गम्यागम्यादिषु सामान्येन साध्वीति, कुत इत्याह-'तस्य' अविशेषस्य 'उत्कर्षसाधनात् माध्यस्थ्योत्कर्षसाधनादिति गर्भः ॥१४७ ॥ अत्रोत्तरम्-'नाप्रवृत्ते रित्यादि, नाप्रवृत्तेः 'इयम्' अविशेषप्रवृत्तिः 'हेतुः' कारणं, कुतः, इत्याह-कुतश्चिदनिवर्त्तनात् , तथाहि-नेयं कुतश्चिदत्यन्तं निवर्तयति, यथालाभं सर्वत्र प्रवृत्तेः,एतदेवाह-'सर्वत्र भावाविच्छेदात्त सर्वभोग्येष्वविशेषेणाभिसन्धेरित्यर्थः, 'अन्यथा' क्वचिद्भावविच्छेदेन क्वचिदेव प्रवृत्तौ 'अगम्यसंस्थितिः' भावविच्छेदात यदितरस्मिन् (अ)प्रवृत्तिः, तस्यैवागम्यत्वादिति ॥ १४८॥ अधिकृतोपचयायाहतच्चास्त लोकशास्त्रोक्तं, तत्रौदासीन्ययोगतः। संभाव्यते परं ह्येतद्भावशुद्धेर्महात्मनाम् ॥ १४९॥ | 'तचे'त्यादि, 'तच' अगम्यम् अस्तु 'लोकशास्त्रोक्तं' भगिन्यायेव, तत्र 'औदासीन्ययोगतः' अरक्ताद्विष्टतया प्रवृत्तियोगात् , संभाव्यते परं हि सर्वत्र निःस्पृहतया प्रवृत्तिरूपम् एतत्' माध्यस्थ्यं, कुत इत्याह-'भावशुद्धेः' एकान्तवि-२ हितानुष्ठानरूपायाः सकाशात् 'महात्मनां महासत्त्वानामिति ॥१४९॥आगमान्तराभिप्रायावलम्बितोऽप्येषः? इत्याहसंसारमोचकस्यापि, हिंसा यद्धर्मसाधनम् । मुक्तिश्चास्ति ततस्तस्याप्येष दोषोऽनिवारितः ॥ १५०॥ 'संसारे'त्यादि, संसारमोचकस्यापि, न केवलं मण्डलतन्त्रवादिन एव, हिंसा यद्धर्मसाधनं दुःखमोक्षणेन, मुक्ति RASACARE
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy