SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ मण्डलत निरासः शास्त्र हारि० १चार्वाकस्तबका ॥२१॥ XSAROSESSES अधिकृतागम्यगमनादिभिः, यदि नामैवं ततः किमित्याह-हेत्वभावेन' अगम्यगमनाद्युत्कर्षाभावेन तद्भावः' मुक्तिभावः 'नित्यः शाश्वतः इष्टेन बाध्यते, हेत्वभावेन तत्प्रकर्षाभावे परममाध्यस्थाभाववत्तदभावादिति ॥ १४३ ॥ पराभिप्रायमाह-'माध्यस्थ्य'मित्यादिना, माध्यस्थ्यमेव 'तद्धेतुः' मुक्तिहेतुः परो वर्त्तते, किन्त्वगम्यगमनादिना साध्यते तत्परं, गम्यागम्यादिषु तुल्यतया प्रवृत्तिः येन प्रकारेण, नैतदेवं, तेन दोषो न कश्चन प्रतिभाति, परममाध्यस्थ्यादेव मुक्तिसिद्धिरिति ॥ १४४ ॥ अत्रोत्तरम्एतदप्युक्तिमात्रं यदगम्यगमनादिषु । तथाप्रवृत्तितो युक्त्या, माध्यस्थ्यं नोपपद्यते ॥ १४५ ॥ अप्रवृत्त्यैव सर्वत्र, यथासामर्थ्यभावतः । विशुद्धभावनाभ्यासात् , तन्माध्यस्थ्यं परं यतः ॥ १४६ ॥ | 'एतदपी'त्यादि, 'एतदपि' अनन्तरोदितमुक्तिमात्रं 'यत् यस्मात् 'अगम्यगमनादिषु' अनन्तरोदितेषु 'तथाऽप्रवृत्तितः' तुल्यतयाऽप्रवृत्तेः 'युक्त्या न्यायेन माध्यस्थ्यं नोपपद्यते परमिति ॥ १४५ ॥ यथोपपद्यते तथाऽऽह-'अप्रवृत्त्यैवे'त्यादि, अप्रवृत्त्यैव 'सर्वत्र' गम्यागम्यादौ, 'यथासामर्थ्यभावतः' यथासामर्थ्यभावेनाप्रवृत्त्या, 'विशुद्धभावनाभ्यासात्' यथोचितं भावनाऽभ्यासात् जायते तन्माध्यस्थ्यं 'परं' सर्वत्राप्रवृत्तिरूपं यतः, अतोऽन्यथा नोपपद्यत इति भावः ॥ १४६ ॥ पराभिप्रायमाहयावदेवंविधं नैतत्प्रवृत्तिस्तावदेव या। साऽविशेषेण साध्वीति, तस्योत्कर्षप्रसाधनात् ॥ १४७ ॥ ॥२१॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy