SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ANAMANCHAR गम्यते, नान्यतः कुतश्चिद्, अविषयत्वादिति ॥१३९॥ यदुक्तं-"प्रतिपक्षागमेन चे"(१२४)ति तत्परिजिहीर्षयाऽऽहप्रतिपक्षागमानां च, दृष्टेष्टाभ्यां विरोधतः। तथाऽनाप्तप्रणीतत्वादागमत्वं न युज्यते ॥ १४०॥ दृष्टेष्टाभ्यां विरोधाच्च, तेषां नाप्तप्रणीतता। नियमादम्यते यस्मात्तदसावेव दर्यते ॥ १४१॥ 'प्रतिपक्षे'त्यादि, प्रतिपक्षागमानां अधिकृतार्थबाधकानां दृष्टेष्टाभ्यां विरोधतः कारणात् , तथा अनाप्तप्रणीतत्वादिति | हेत्वन्तरतः, आगमत्वं न युज्यते, तल्लक्षणाभावादिति ॥ १४०॥'दृष्टे'त्यादि, दृष्टेष्टाभ्यां विरोधाद्धेतोः 'तेषाम्' आगमानामनाप्तप्रणीतता नियमाद्गम्यते यतो यस्मात् तत्-तस्मादसावेव-दृष्टेष्टविरोधः दर्यत इति ॥ १४१॥ एतदेवाहअगम्यगमनादीनां, धर्मसाधनता क्वचित् । उक्ता लोकप्रसिद्धेन, प्रत्यक्षेण विरुध्यते ॥ १४२॥ खधर्मोत्कर्षा(र्षणा)देव, तथा मुक्तिरपीष्यते । हेत्वभावेन तद्भावो, नित्य इष्टेन बाध्यते ॥ १४३ ॥ माध्यस्थ्यमेव तद्धतुरगम्यगमनादिना । साध्यते तत्परं येन, तेन दोषो न कश्चन ॥ १४४॥ ___ 'अगम्ये'त्यादि, 'अगम्यगमनादीनां' भगिन्यादिगमनमांसभक्षणादीनां धर्मसाधनता क्वचित् मण्डलतत्रादौ 'उक्ता प्रतिपादिता सा लोकप्रसिद्धेन-आविद्वदङ्गनादिसम्मतेन प्रत्यक्षेण विरुध्यते, प्रतीत्या बाध्यत इति भावः ॥१४२॥ उक्को लोकदृष्टविरोधः, इष्टविरोधमाह-'खधर्मोत्कर्षादेव' अगम्यगमनादिप्रकर्षादेव तथा मुक्तिरपीष्यते,
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy