SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ शास्त्र० हारि० १ चार्वाक स्तबकः ॥ २० ॥ - 'अतीन्द्रियेष्वित्यादि, अतीन्द्रियेषु 'भावेषु' पदार्थेषु प्राय एवंविधेषु शुभादेः सौख्यादीत्येवंप्रकारेषु 'यत्' यस्मात् छद्मस्थस्याविसंवादि- इदमित्थमेवेति नियमवत् मानमन्यत् न विद्यते, आगमं विहाय, साक्षाददर्शनादिति ॥ १३५ ॥ परयुक्तिदूषणमाह-' यच्चोक्त' मित्यादिना, यच्चोक्तं परेण दुःखबाहुल्यदर्शनं शुभात्सौख्यसिद्धौ, एतन्न साधकं, कुत इत्याह 'कचिद्' भरतादौ ' तथोपलम्भेऽपि दुःखबाहुल्योपलम्भेऽपि सर्वत्रैवादर्शनादिति भावः ॥ १३६ ॥ पराभिप्रायमा - शय परिहरन्नाह - 'सर्वत्रे' त्यादिना, सर्वत्र दर्शनं 'यस्य' सर्वज्ञादेः तद्वाक्यात् किं न साधनं १, दुःखबाहुल्यदर्शनं, स हि दृष्ट्वैवमाहेति, अत्रोत्तरं - साधनं 'तद्' दुःखबाहुल्यदर्शनं भवत्येव, शुभादेः सौख्यादीत्यस्य, आगमात्तु न भिद्यते, आप्तवचनत्वात्तस्य, ततस्तथाप्रतीतेरिति ॥ १३७ ॥ अधिकृतोपयोग्येव किञ्चिदाहअशुभादप्यनुष्ठानात्सौख्यप्राप्तिश्च या क्वचित् । फलं विपाकविरसा, सा तथाविधकर्मणः ॥ १३८ ॥ | ब्रह्महत्यानिदेशानुष्ठानाद्रामादिलाभवत् । न पुनस्तत एवैतदागमादेव गम्यते ॥ १३९ ॥ 'अशुभ' दित्यादि, अशुभादप्यनुष्ठानात् - चौर्यादेः सौख्यप्राप्तिश्च या क्वचित् लोकसिद्धा, फलं विपाकविरसा सौख्यप्राप्तिः 'तथाविधकर्मण:' तत्प्रकारफलदायिनः, अशुभानुबन्धिनः शुभस्यैवेत्यर्थः ॥ १३८ ॥ निदर्शनमाह - 'ब्रह्महत्ये'त्यादिना, 'ब्रह्महत्यानिदेशानुष्ठानात् ब्राह्मणं व्यापादय ततस्तं (स्त्वां ) ग्रामं दास्यामीत्याज्ञासम्पादनात् ग्रामादिलाभवत्, | स हि तत्प्रकार फलदायिकर्मण एव भवति, न पुनः 'तत एव' ब्रह्महत्याऽनुष्ठानात्, 'एतत्' एवंप्रकारं वस्तु आगमादेव हिंसादेर शुभादि ॥ २० ॥
SR No.600307
Book TitleShastravartta एamucchay
Original Sutra AuthorHaribhadrasuri
Author
PublisherGodiji Jain Upashray
Publication Year1929
Total Pages1929
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy